________________ 201 // 14 // आगमोद्धारककृतिसन्दोहे प्रोद्भावप्रभवैककार्यकरणात् किन्तूदयादार्हताद् , वक्तुः श्रोतृगणस्य चागमगतात् सद्बुद्धिरुच्योर्युगात् // 12 // मोघं त्वद्भजनं जिनेश ! यमिनां संसेवनं सादरं, तीर्थोत्सर्पणहेतुधर्मललनं जाग्रज्जगद्भासनम् / किन्त्वेतत् सकलं भवेत्फलयुतं चेदागमानां तव, पूजालेखन-सक्रियं यदि भवेत् पुंसां जनुर्दुर्लभम् // 13 // कथं ज्ञेयं वृत्तं तव सुचरितं दोषविकलं, कथं स्थाप्या मूर्तिस्तव जिन ! .गताङ्का शमरसा / / कथं ते मोक्षाध्यप्रगुणगणोद्दाममुदितं, न चेदेषा शुद्धा भवति भुवने ह्यागमततिः हास्याधायि जने घने मम विभो ! मौग्ध्यं परं दृश्यतामात्तो यच्चिरकल्पकालजनितो निष्पत्तये शर्मणाम् / त्यक्त्वाऽध्यक्षसुखार्पकान् सुनियतान् ज्ञातेयतीर्थ्यान् श्रितान् , चेत्ते नागमसन्ततिः प्रभवति प्रोद्दाममोक्षाध्वने // 15 // अध्यक्षमेतद्विदुषां प्रघोष्यते, यद् ग्राह्यतामेति समक्षमूहितम् / मृतं घिरातीततरं समाश्रयस्त्वां किं ब्रवीमि जिनपागममान- . वन्ध्यितः (वञ्चितः) // 16 // न्यायः सार्वजनीन एष विदितो यद्वीक्षिते बालके, . नश्यत्यौदरिके रुचिर्मतिमतां जाउथस्य जातादरा / तत्किं सार्व ! मया जगत् सुविदितं सौख्याकरं सूज्झितं, हा ! ते ह्यागमसन्ततिर्न. च मता पापात्मनाऽधीमता // 17 / /