________________ 178 जैनगीता। दुःखद्विषो जगति दीनदशामुपेता, देवाङ्गनादिरसलालिततप्तदेहाः / नैवाहताःसुमहनीयपदं मुनीशाः, दध्या० // 27 // धर्मं विदन् प्रविदधद् विस्ताघवृन्दो, धर्म सदा प्रविदिशन् जिनराडुदीर्णम् / यत्राहतो गुरुजनोऽनघमार्गगामी, दध्या० // 28 // प्राग्धर्मार्जितसत्पदोऽनघपथो रागादिसर्वारिहा, स्याद्वादामृतवर्षको मुनिगणैसप्ताव्ययः शाश्वतः / अर्घ्यः श्रीजिनराट् सदा सुरनरैर्देवो मतः सद्गुणैः, द० // 29 // ये धर्म परमं श्रिता जिनपदे बिम्बानि तेषां सदा, कुर्वन्त्यादरसंयुतानि विशदास्तत्स्थापनाढ्याः सदः / मोक्षाध्वप्रगुणोऽङ्गिवर्ग उदितो यत्रास्ति पुष्टौ धृतो, दध्या० // 30 // ब्राम्ये पञ्चनमस्कृतिः क्षण इहाद्ये संस्मृता पूजनं, पुष्पाद्यैर्जिनराजबिम्बविषयं सत्संवरेणाश्चितम् / धर्मस्य श्रवणं न रात्रिरसनं सुप्तिः कृताराधना, दध्या० // 31 // पूज्यो यो न रमा रमेत विषय स्राणि द्वेषावहान् , नाज्ञानाज्जपमालिकां न च परे लीनो भवोत्तारके / पर्यङ्कासनदृग्यतोऽखिलभवान्तेऽसौ गतः स्वां विदं, दध्या० // 32 // पूज्यो यत्र गुरुनिराश्रवतनुः सत्संयमे यो दृढः, . सोढा स्यादुपसर्गदुःखवितते निर्जित्य तृड्मुख्यगान् / सर्वानेव परीषहानघचयहासैकदृष्टिः सदा, दध्या० // 33 //