________________ जैनगीता / 169 एवं यः क्रमभाजनं भवगणात्कायव्रजाद्वा भवन् , ज्ञानस्यागणितेन भागमुपयन् हायश्च भाव्याश्रयात् / सम्भ्रान्तः स्वकजातितः क्रमधरं ज्ञानस्य पृथ्न्यादिषु, सज्ज्ञानं० / / 5 / / पुण्येनापमितेन पुष्टिपदवों यावद्भवी सम्पतेत् , ___ तावत्सङ्घटतेऽस्य वृद्धिसहितं जिह्वेन्द्रियेणादिमम् / एवं वृद्धिरपेक्ष्यतेऽक्षनिसृता शक्तेरसूनां गणे, सज्ज्ञानं० // 6 // यावन्नश्यति हन्यमानजनुषः प्राणापरोपोद्भवा, सा तावत्प्रमितं वधोद्यतनरः पापं समुद्धावति / नैवात्रास्ति विशिष्टता भवभृतेष्वन्येषु जीवेष्वपि, सज्ज्ञानं० // 7 // साधुभ्यो गुरुभिश्च शोधिकृतये जीवस्य दुःखार्पणे, . तत्तद्भेदमनुश्रितैर्लघुबृहत्पापोच्छ्योच्छेदकम् / .. प्रायश्चित्तमनेकधात्ममननैः सामर्थ्यमात्राश्रितं, सज्ज्ञानं० / / 8 / / द्वित्राद्यक्षसमन्विते भवभृति स्युर्गोचरास्तच्छ्रिताः, - स्वादाद्या रवणान्तका निजनिजाऽदृष्टोद्वसात् प्राणिनि / तस्माज्जीवशरीरगा निगदिता चित्रा मुनीनां कृतिः, सज्ज्ञानं० // 9 // पश्चाक्षत्वमधिश्रिता असुभृतो नानागतिं संश्रिता, जोत्या तत्र विदा परा सुरभवे ह्यानुत्तरे दैवते (निर्जरे)। सत्तजातिसमुद्भवस्य विलयो ज्ञानस्य दोषावहः, सज्ज्ञानं० // 10 // मानुष्ये व्यवहारमार्गसुगम सङ्केतसाध्यं परं, लिप्यादेर्जनितं यदक्षरभवं यच्चान्तरा बोधतः / तत्सर्वं व्यवहारमार्गपतितं विज्ञैः श्रुतं ख्यायते, सज्ज्ञानं० // 11 / /