________________ 168 जैनगीता। जैनः स एव मनुते जिनराजगीतं, प्रोक्तं सभासु गणभृन्नियमेन धर्मम् / यावत् प्रभावममलं भविभिधृतो-हि, धर्मो० // 36 // इति त्रयस्त्रिंशोऽध्यायः / / चतुस्त्रिंशोऽध्यायः / (ज्ञानाधिकारः) जैनो यो मनुते सदा सहगतं सज्ज्ञानमात्मश्रितं, ज्ञानानन्दमयो यतो जिनमते जीवः समस्तो मतः / यावद्येन विनाशितं भवति तत्तस्यावृतेः कारकं, सज्ज्ञानं श्रियतां सदा भविजन ! स्वार्थप्रबोधोद्यतम् // 1 // सूक्ष्मोऽसौ भवचक्रमध्यमुदयन् ज्ञानस्य लेशं दधद् भ्रान्तोऽनादित आवृती अतितरां सर्वत्र चैकेन्द्रियः / (?) यत्कालं व्यवहारवर्जिततनुस्तावच्छरीराल्लघुः, सज्ज्ञानं० // 2 // आयातः पृथिवीमिदां तनुतरां प्रत्येककायं धर श्चैतन्यं व्यवहारितामनुगतः प्राप्नोति सञ्ज्ञां पृथग् / प्राकालादमितां जघन्यपदिकां वृद्धिं समेतोऽसुमान् , सज्ज्ञानं० / / 3 / / एवं वृद्धियुतो मतावतितरां वार्वायुतेजोयुते, प्रत्येके च वनस्पतावनियमावृद्धीतरे धारयन् / स्पर्शाशेन पदार्थरूपमननादेकेन्द्रियत्वान्वितः, सज्ज्ञानं० // 4 //