________________ 162 जैनगीता। आत्मानमात्मप्रतिबद्धरूपं, जानन्त आत्मव्यतिरिक्तभिन्नाः / काषायिकं स्थानमपाहरन्तः, सेव्याः०. // 29 // ये नित्यरूपं प्रवरं विदन्त-श्चैतन्यसौख्यकमयं जिनोक्तेः / अधिष्ठिताः स्वं निजरूपहेतोः, सेव्याः० // 30 // ये पौद्गले नैव सुखे निमग्ना, न द्वेषिणः पूर्णनिजस्वरूपाः / निरुध्य योगान् विगताघबन्धाः, सेव्याः० // 31 // परे हि तीर्थ्याः निजसेवकान् सदा, तैरश्वभावप्रभवं निदर्य / दुःखं विषण्णा भवभावमेते, . सेव्याः० // 32 // पूजा परीवारकृते न दीक्षा, सम्यक्त्वचारित्रविदादिरूपाम् / चक्रुर्भुजिष्ये भवमन्थनाय, सेव्याः० // 33 // मुक्त्यर्थमात्ता य इमे परेभ्य-स्त्यजन्ति तानंशुकवासमादीन् / विमुच्य बोधादिमयं तु जीवं, . सेव्याः० // 34 // न वाहनं प्राप्तपुरस्य काम्यं, नौर्वा समुद्रस्य तटं गतानाम् / मत्वेति हात्वाऽपरमात्मलीनाः, सेव्याः० // 35 // जैनः स एवाखिलतत्त्ववेत्ता, मार्ग मुनीनां दृढभक्तिभावः / सदा धरस्तेषु गतः शरण्यं, सेव्याः० // 36 // इति द्वात्रिंशोऽध्यायः !