________________ 154 जैनगीता। श्राद्धयश्च देव्यश्च न विभुत्ववत्य-स्तथापि साम्येन नयन्ति सर्वान् / श्राद्धाँश्च देवाँश्च जिनोक्तधर्मे, स्वयं दृढाः कुर्वते धर्मरक्तान् // 72 // यथा परेषामधिकारिता नहि, गृहे च धर्मे व्रतमुख्यकेऽपि / तथा न जैनेष्विति सर्वधर्मेऽस्त्यासां समो ह्येवमतोऽधिकारः // 73 // नासां धर्मों वंशजात्याविरुद्धो, यद्धर्मोऽत्राराधनीयः स्वभावात् / आत्मार्थं तद्धारयन्त्या नितान्तं, गीता तीथ्य निन्दयित्वा न्वनीं // 4 // जैनः स स्यान्मातृवर्गेण तुल्याः, सर्वाः श्राद्धीर्मानयित्वा महेद्यः / मोक्षार्हायाः सप्तक्षेत्र्या विभेदं, चित्ते नैवं सन्दधीताचलेक्षः // 75|| इति त्रिंशोऽध्यायः / / एकत्रिंशोऽध्यायः / ( देवाधिकारः ) जैनः स एवार्हतधर्मधारी, यको भवान्धोरवनोऽर्हताऽभूत् / नास्त्यन्यधर्मप्रवणो जनेऽस्मिन् , पुनातु देवो भविनो जिनोऽर्हन / / 1 / / कालादनादेनिजभव्यतायाः स्वरूपमन्यासदृशं दधानः / यथाऽऽम्रवृक्षः स्वकजातिबीजात्, पुनातु० // 2 // भवस्थरूपे भवबालकाले, जहौ न तादृम्बरभावसत्ताम् / मलीमसं स्वर्णमयों विभिन्नं, पुनातु० // 3 // तथा तथा कालविवर्तसङ्ख्या-तीतं भवाब्धौ परिवर्त्तमानः / तुल्यं परैः कालभवानतुल्यः, पुनातु० // 4 //