________________ जैनगीता। 97 शल्यादिसाम्यमुदितं रवणादिसघे, * शास्रेषु नैव जिनबिम्बगृहादिकार्ये // 26 // दत्ते मुनिभ्योऽशनपानखाद्य-स्वाद्यानि यो हि वधमादि कृत्वा / तत्रापि चेच्छास्त्रकारैः प्रभूता, सन्निर्जरा तर्हि विमोहनं कथम् // 27 // केचिन्मुनीनां स्तवमाश्रयन्तः , पुष्पादिपूजां विहितां गृहस्थैः / पदेऽपवादस्य मनन्ति, तन्ना-धिकारियोग्यो हि विधिस्तथा न / / 28 // निषेधो विधिर्वा मतः कर्तृ योग्यो, मुनीशो निषिद्धो गणेतप्तिकार्ये / मुनेमागगत्यां निषिद्धोऽस्ति पाठो, निषिद्धा स्थितिः कल्पिकी पात्रबाधे // 29 // दृष्ट्वा जिनं चैत्यविराजितं जना, ब्रजन्ति रागं जिनशासनेऽनघे। समूल एष क्षयति प्रकामं, द्विष्टः सपक्षे खलु नीतिबाह्यः // 30 // जिनाय शान्तिप्रथमाननाय, नत्वा निजं तद्गदितागमाय / भवेत्प्रवृत्तो नर आत्मतायी, प्रकृष्ठशत्रोः पदमाश्रितो यत् // 3 // एका नतिर्या जिनराजभानवे, कृता नरैः साऽष्टविधान्धतामसम् / निहन्ति, यन्नैव हतौ दिनेश-प्रभाऽलसा स्यात्तिमिरावलीनाम् / / 32 / / पूजामष्टविधां तथाविधमतिः प्रातः स्वकीये गृहे, चैत्यं याति मनोहरं पुरगतं श्रीसङ्घसत्तां श्रिते / प्रत्याख्यानपरो विधाय गुरूणामाचारचर्यां वरां, मध्याह्ने प्रतिलम्भ्य साधुनिचयं जैनोऽशनं खादति // 33 / /