________________ 384 अभिधर्मदीपे [494. ध्यानविमोक्षसमाधिसमापत्ति'ज्ञानबलं खलु यत्संक्लेशव्यवदानव्यवस्थानविशुद्धिषु निवृत्तिपक्षे ध्यानानां विमोक्षाणां समाधीनां समापत्तीनां च संक्लेशव्यवदानव्यवस्थानविशुद्धिषु यद्बलमव्याहतम् / तत्र संक्लेशादिचतुष्टयं हानि(न)विशेषस्थितिनिर्वेधभागीयं सास्वादशुद्धकानास्रवादिभेदात् / तदेतद्धयानविमोक्षसमाधिसमापत्तिज्ञानवलं नवज्ञानात्मक वोद्धव्यम् / / [494] यत्सत्त्वाक्षमृदुत्वादौ परिच्छेदे प्रवर्तते / प्रक्षोत्तमावरज्ञानबलं तनवधीमयम् / / इन्द्रियपरापरज्ञानबलम्३ यस्सर्वसत्त्वानां श्रेयःप्राप्तिशक्तित्रविध्ये ज्ञानमव्याहतं तदिन्द्रियपरापरज्ञानवलं नवज्ञानात्मकं निरोधज्ञानं हित्वा / / [495] यत्सत्वाविरुचित्रैधे हीनादौ सम्प्रवर्तते / नानाधिमुक्तिधीसंज्ञे° बलं तच्च नवात्मकम् // यत्खलु सर्वसत्त्वानां हीण(न)मध्यमोत्तमाधिमुक्तिष्वव्याहतं ज्ञानं तच्च नानाधिमुक्ति ज्ञानबलं नवज्ञानात्मकमेव निरोधज्ञानं हित्वा // [496] यन्नानाधात्वपेक्षाख्यं सत्त्वार्थाय प्रवर्तते / नवज्ञानमयं तद्वत्तन्नानाधातुधीबलम् / 1 ध्यानानि चत्वारि / विमोक्षा अष्टौ / समाधयस्त्रयः शून्यतादयः। समापत्ती द्वे, असंज्ञिनिरोधसमापत्ती। नवानुपूर्वविहारसमापत्तयः / Saks. p. 643. See vbh.p. 342-3. 2 तेषु नव ज्ञानानि निरोधज्ञानं हित्वा / कथं कृत्वा ? ध्यानादीनां सासवानास्रवसंप्रयुक्तविप्रयुक्तभेदात् तदालम्बनानि नव ज्ञानानि संभवन्ति / निरोधज्ञानं तु न भवति, तेषां संस्कृतत्वात् / Saks. p. 643. 3 Cf. तत्थ कतम"इन्द्रियपरोपरियत्तं नाणं ? इध तथागतो सत्तानं आसयं जानाति, अनुसयं पजानाति, चरितं पजानाति, अधिमुत्ति पजानाति, अप्परजक्खे महारजक्खे तिक्खिन्द्रिये मुदिन्द्रिये स्वाकारे द्वाकारे सुविञापये दुविज्ञापये भब्बाभब्बे सत्ते पजानाति / "Vhb. p. 340-342. see Vbh. A. pp. 458-462. 4 इध तथागतो पजनाति-संति सत्ता हीनाधिमुत्तिका,पणीताधिमुत्तिका'इदं तथागतस्स सत्तानं नानाधिमुत्तिकतं यथाभूतं नाणं / Vbh. p. 340. 5 प्रधानादिषु रुचयो नानाधिमुक्तयः / Saks. p. 64 3. 6 इध तथागतो खन्धमानत्तं पजानाति, धातुनानत्तं ""आयतननानत्तं अनेकधातुनानत्तं""लोकनानत्तं पजानाति / Vbh. p. 339. -धातुनानत्तं ति अयं चक्खुधातु-पे-अयं मनोविज्ञाणधातु नाम ।'"""अनेकधातुनानाधातुलोकं ति इदं न केवलं उपादिन्नकसङ्खारलोकस्सेव नानत्तं पजानाति, अनुपादिन्नक