________________ 358 अभिधर्मदीपे [.442 तिस्रो बोधयः।' बुद्धप्रत्येकबुद्धश्रावकबोधयः। उत्तमनिर्वाणाङ्गभूता तद्धि तिसणामपि बोधीनां पुरुषकारफलं तत्प्राधान्यत्वात् / मृदुमध्याधिमात्रा: सप्तत्रिंशद्बोधिपक्ष्या धर्माः मृदुमध्याधि मात्रभेदभिन्ना महायाण (न)म् / मृदुमध्याधिमात्रभेदभिन्न बुद्धप्रत्येकबुद्धश्रावकयाण(न)मित्युच्यते। तस्याः पुनस्त्रिप्रकाराया बोधेरनुकूलधर्माः स्मृत्युपस्थानादयः 'सप्त. त्रिंशन्नामतः'। द्रव्यतस्त्वेकादश / 3 श्रद्धादीनि पञ्च बलानि प्रीतिप्रस्रब्ध्युपेक्षासम्यक्संकल्पवाक्कन्तिाश्च षडिति / अत इदमुच्यते--.. [442] सोपेक्षाप्रीतिसंकल्पं श्रद्धादीन्द्रियपञ्चकम् / सप्रस्रब्धिर्द्विरूपोत्थं नामभेदस्त्वपेक्षया / / 1443] बलान्यत्रेन्द्रियाण्येव प्रज्ञेव स्मत्युपस्थितिः। वीयं सम्यक्प्रधानाख्यं रि(ऋ)द्धिपादा मनस्थितिः // कथं पुनरेकं वीर्य चतुर्धा निदिश्यते ? तदपदिश्ते- . [444] दोषहाणमनुत्पादं गुणोत्पादं विवर्धनम् / सकृत्करोति यत्तद्धि स प्रहाणचतुष्टयम् // *उत्पन्नानां रागादीनां खलु दोषाणां प्रहाणायानुत्पन्नानां चानुत्पादाय ‘यद्वीर्यम्, गुणानां च स्मृत्युपस्थानधिपादादीनामनुत्पन्नानामुत्पादाय, उत्पन्नानां च स्थितये यद्वीयं, तत्प्रयोजननिष्पत्तिभेदाच्चत्वारि सम्यक्प्रहाणानि भवन्ति / / 1v. supra, pp. 20+ ff. See Vm. III. 128. These two terms are not mentioned in Akb. 3 Cf.."एवमेते बोधिपक्ष्या दश द्रव्याणि भवन्ति / वैभाषिकाणामेकादश / काय. वाक्कर्मणोरसंभिन्नत्वात् शोलांगानि द्वे द्रव्ये इति / Ahb. VI. 69 ab.-'दश द्रव्याणि' इति केषाञ्चिन्मतेन / Saks. p. 600. 4 Cf. श्रद्धा वीर्य स्मृतिः प्रज्ञा समाधिः प्रीत्युपेक्षणे / प्रथब्धिशीलसकल्पा: प्रज्ञा हि स्मृत्युपस्थितिः॥ वीयं सम्यकप्रहाणाख्यं ऋद्धिपादाः समाधयः / प्रधानग्रहणं सर्वे गुणाः प्रायोगिकास्तु ते // Ab. VI. 68-69. See Aaa.. 116 and A. Saigaho, VIII. 33. 5 चत्तारो सम्मप्पधाना-इध भिक्खु अनुप्पन्नानां पापकानं अकुसलानं धम्मानं अनुप्पादाय छन्दं जनेति वायमति विरियं आरभति चित्तं परगण्हाति पदहति, उप्पन्नानं पापकानं अकुसलानं धम्मानं पहानाय""", अनुप्पन्नानं कुसलानं ठितिया उत्पन्नानं कुसलानं पारिपूरिया धम्मानं पदहति / Vbh. p.208.