________________ षष्ठाध्याये चतुर्थपादः। लौकिकलोकोत्तरदर्शण (न) भावनाशैक्ष[शैक्ष] मार्गभेदेनानेकविधो मार्ग उक्तः / स तु [439] विज्ञातव्यः समासेन पुनमार्गश्चतुर्विधः / प्रानन्तर्यविमुक्त्याख्यौ प्रारम्भोत्कर्षलक्षणौ / ' तत्र प्रयोगमार्गः कुशलमूलफलस्यारम्भ इत्यर्थः / तस्यानन्तरमानन्तयंमार्गः येन क्लेशाजहाति३ / विमुक्तिमार्गो यः तत्प्रहेयावरणविमुक्ते 1 cf. मार्गः समासतः। विशेषमुक्स्यानन्तर्यप्रयोगाख्यश्चतुर्विधः। AK. VI. 65 bcd. 2 प्रयोगमार्गों यस्मादनन्तरमानन्तर्यमार्गः / Akb. VI. 6 5 cd. प्रयोगमार्गः कतमः ? यः संभारमार्गः स प्रयोगमार्गः / यस्तु प्रयोगमार्गः स न संभारमार्गः। संभारमार्गोपचितानि निर्वेधभागीयानि कुशलमलानि ऊष्मगतः मर्धानः सत्यानुकूलक्षान्तिः लौकिकाग्रधर्मश्च / Asm. p. 6. (संभारमार्गः कतमः ? पृथग्जनानां शीलं . शमथविपश्यना "कुशलं श्रुतमयो"" चिन्तामयी भावनामयो प्रज्ञा / Ibid.) Cf. लौकिका अग्रधर्माः प्रयोगमार्ग इति गम्यते / यस्तु प्रतिलोमतः क्षान्त्यादिमार्गः स कस्मिन्नन्तर्भवतीति वक्तव्यम् ? आह / प्रयोगमार्ग एवान्तर्भवति | Sahy. p. 598. 3 आनन्तर्यमार्गो येनावरणं प्रजहाति। Akb. VI. 65 cd.-'आनन्तर्यमार्गो येनावरणं प्रजहाती'ति / अप्रहाणमार्गसंभवात् / अस्ति स. प्रानन्तर्यमार्गो येनाऽवरणं न प्रजहाति, इन्द्रियसंचारादिषु / Sakv. p. 597. Also cf. प्रानन्तर्यमार्गः कतम: ? यस्यानन्तरं निरन्तरः क्लेशः प्रहोणो भवति / Asm. p. 70. V. supra, p. 350, n. 1. 4 विमुक्तिमार्गो यस्तत्प्रहेयावरणविनिर्मुक्तस्तत् प्रथमत उत्पद्यते / Abb. VI. 65 cd -'"आनन्तर्यमार्गस्य दुःखधर्मज्ञानक्षान्त्यादेर्यत् प्रहेयमावरणम्, दुःखदर्शनप्रहातव्यो निकायो यावद्भावनाप्रहातव्यः / तेन प्रहेयावरणेन निर्मुक्तो यः प्रथमत उत्पद्यते स विमुक्तिमार्गः। Saky. p. 598. Cf. विमुक्तिमार्गः कतमः ? येन प्रहीणे क्लेशे विमुक्ति साक्षात्करोति / Asm. p. 70. V. supra, p. 350, n. 4.