________________ 430.] . षष्ठोऽध्यायः। 345 पुनश्च तदुत्थितः अनास्रवं तथैव स तान् प्रवाहान्ह्रसित्वा याव[त्क्षण]द्वये तिष्ठतीत्येष प्रयोगः / सिद्धिस्तु क्षणद्वयमिस्रणात् / यदा तु शक्नोत्येकेनास्रवक्षणानन्तरमेक लौकिकं संमुखीकर्तुम्, एकलौकिकक्षणानन्तरं चैकमनास्रवमयत्नेन, एवमनास्रवाभ्यां सास्रवस्य मिश्रीकरणानिष्पन्ना भवति ध्यानव्यवकिरणा। किमर्थं पुनर्व्यानव्यवकिरणम् ? तदुच्यते . उद्भवार्थ सुखार्थं च क्लेशाशङ्कार्थ मेव च / / 3 त्रिभिः कारणानानि व्य वकीर्यन्ते / उपपत्त्यर्थं सुखविहारार्थं क्लेशपरिहाणिभीरुतया च। तत्र दृष्टिप्राप्त: उपपत्त्यभिलाषसमापत्तिप्रियताभ्याम् / श्रद्धाधिमुक्तस्तु पूर्वाभ्यां च कारणाभ्यां क्लेशभीरुतया च / १cf.""एवं प्रवाहापह्रासेन यदा किल द्वौ क्षणावनास्रवौ द्वौ सास्रवी पुनश्चानास्रवी / अयं व्यवकरणस्य प्रयोगः / अशक्यं तु क्षणव्यवकिरणमन्यत्र बुद्धात् / अत इच्छात: प्रवाहत्रयसमापत्तितो निष्पन्नं भवतीति पश्यामः। Akb. VI. 41 ab. -'यदा किले'ति किलशब्दो वैभाषिकमत द्योतकः। स्वमतं तु''अशक्यं तु क्षणव्यवकिरणमिति विस्तरेण / Saks. p. 565. 2cf. यदा त्वनास्रवस्य क्षणस्यानन्तरं सास्रव सम्मुखी करोति सास्रवस्यानास्रवम् / एवं सास्रवस्य क्षणस्यानास्रवाभ्यां मिश्रणात् व्यवकिरणं निष्पन्नं भवतीति वैभाषिकाः / द्वौ हि क्षणावानन्तर्यमार्गसदृशी तृतीयो विमुक्तिमार्गसदृश इति / एवं चतुर्थ ध्यानं व्यवकीर्य तद्वलेनान्यन्यपि व्यवकीर्यन्ते। Akb. VI. 42_b.-आनन्तर्यमार्गसदृशाविति अनास्रवसास्रवौ / "विमुक्तिमार्गसदृश इत्यनास्रवः / Saks. p. 565. 3 Cf: उपपत्तिविहारार्थ क्लेशभीरतयापि च / Ak. VI. 42 cd. 4 शुद्धावासोपपत्त्यर्थम् / Sakv. p. 56 5. 5 दृष्टधर्मसुखविहारार्थम् / Ibid. 6 अपरिहाण्यर्थमिति फलान्न परिहीयेयमिति / Ibid. p. 566. 7 कतमो च पुग्गलो दिठ्ठिप्पत्तो ? इधेकच्चो पुग्गलो इदं दुक्खं ति""समुदयो ति... निरोधो ति पटिपदा ति यथाभूतं पजानाति, तथागतप्पवेदिता च'स्स धम्मा पञ्चाय वोदिट्ठा होन्ति वोचरिता, पञाय चस्स दिस्वा एकच्चे आसवा परिक्खीणा होन्ति " अयं.. दिठ्ठिप्पत्ती। P. Painiatti, P, 15, 8 कतमो च पुग्गलो सद्धाविमुत्तो ? इधेकच्चो""इदं दुक्खं तिपे""एकच्चे आसवा परिक्खीणा होन्ति, नो च खो यथा दिठ्ठिपत्तस्स, अयं वुच्चति पुग्गलो सद्धाविमुत्तो। Ibid.