________________ 429.] षष्ठोऽध्यायः। ___ कस्मात् पुनः स्रोतमापन्न सकृदागामिनोः सत्पुरुषगतिर्न देशिता सत्पु[रुषसूत्रोद्देशे लक्षणेपि सति तदुच्यते सति वृत्त रणे (न) र्याणादुक्तैषामेव सद्गतिः॥' यस्मादनागामिनः सत्येव वृत्तिर्भवति नासती / 2 इतरयोस्तु कुशलाकुशले वृत्तिः / यस्माच्चानागामी यतो गतस्तत्र न पुनरागच्छति, तौ तु गतागती कुर्वाते तस्मा' त्तस्यैव स (सा) गतिर्देशिता नेतरयोरिति // ___किं पुनः परावृत्तजन्माप्यनागामी सत्पुरुषगतौ व्यवस्थापितः ? नेत्याह / यस्मात् [429] परावृत्तभवो ह्यार्यों नेह धात्वन्तरोपगः / " रूपधातौ हि परावृत्तजन्मनः आर्यस्य धात्वन्तरगमने ऽस्ति संभवः / कामधातौ तु परावृत्तजन्माऽऽर्यो न धात्वन्तरं गच्छति तत्रैव जन्मनि परिणि (नि)र्वाणात् / 1 Cf. सबसवृत्त्यवृत्तिभ्यां गतप्रत्यागतश्च ताः / Ak. VI. 40 cd. 2 सति च कर्मणि वृत्तिः प्राणातिपाताधकरणात् / असति चावृत्तिरब्रह्मचर्याद्यक. रणात् / अकुशलेन हि चित्तेनाब्रह्मचर्यादिकरणमिति / तेषां तु वीतरागाणां सत्येव कर्मणि afarafafa afegturpretara i Saku. p. 563. See Kv. XII. 8 and 9. ___3 After this the Akb. (VI. 40cd) has : अन्येषामप्यस्ति पार्यायिकं सत्पुरुषत्वम् / पञ्चविधस्य पापस्यात्यन्तमकरणसंवरप्रतिलम्भात् प्रायेणाकुशलप्रहाणाच्च / येषां तु निष्पयायेण तेषामिह [ = सत्पुरुषगतिसूत्रे] अधिकारः। 4 परिवृत्तजन्मा in Akb.-परिवृत्तजन्माऽनागामी यः प्रथमे जन्मनि स्रोतापत्तिफलं सकृदागामिफलं वा प्राप्य द्वितीये जन्मन्यनागामी भवति / Saks. p. 564. 5. cf. न परावृत्तजन्मार्य: कामे धात्वातरोपगः / AR. VI. 40 cd. 6. रूपघाती तु परावृत्तजन्मा कदाचिदारूप्यान् प्रविशति / य ऊर्ध्वस्रोता भवान- परमः / Cf. Akb. VI. 40 cd. ___7 तत्रैव जन्मनि परिनिर्वाणादिति / कामधातौ दुःखबहुलत्वेनास्य तीव्रसंवेगत्वात् / Saks. p. 564. __8 After this, the Kosakara discusses one more point:-यत्तहि शक गोक्तम्'ये ते देवा अकनिष्ठा इति विश्रुताः अन्ते मे हीयमानस्य तत्रोपपत्तिर्भविष्यति / ' अभिधर्मानभिज्ञत्वादिति वैभाषिकाः। भगवताप्यनिवारणं संहर्षणीयत्वादिति / Akb. VI. 40 cd. -च्युतिनिमित्तोपपत्तिदुःखोद्विग्नस्य संप्रहर्षणीयत्वादित्याचार्यसंघभद्रः / Saks. p. 56 5.