________________ 340 अभिधर्मदीपे [427. णि(निर्वायिणमू(न्नू ?)व॑स्रोताश्च / द्वितीयाद्या हि त्रयोऽणा (ना)गामिनः सर्व एवोपपद्य परिणि (निर्वायिणो भवन्ति / अनुपपन्नानां परिणि ( निर्वाणात् / तेषां प्रत्येकं तु (त्रि)धा भेदान्नवानागामिनो भवन्ति / ' कथमिति ? अन्तरापरिणि ( निर्वायिणस्तावदुत्पतत एवादूरं गत्वोपपत्त्यासन्नीभूतस्य च परिणि(निर्वानि(ण) भेदात् / उपपद्यपरिणि(निर्वायिणः उपपद्य साभिसंस्काराण (न)भिसंस्कारभेदादूर्ध्वस्रोतसः प्लुतादिभेदात् / तद्विशेषः पुन यः कर्मक्ले शाक्षभेदतः // तेषां पूनस्त्रयाणां नवानां वा अनागामिनां कर्मक्लेशेन्द्रियभेदाद्यथायोगं विशेषो बोद्धव्यः / त्रयाणां तावत्कर्मतः, अभिनिर्वत्युपपत्त्यपरपर्यायवेदनीय. कर्मोपचितत्वात्। क्लेशतः मृदुमध्याधिमात्रक्लेशसमुदाचारात् / इन्द्रियतोऽधिमात्रमध्यमद्विन्द्रियभेदात् / / यदि तहि क्लेशेन्द्रियभेदान्नवानागामिनो भवन्ति, कथं सूत्रे सप्त सत्पुरुषगतयो देशिता: ?' तदपदिश्यते 1cf. अन्तरापरिनिर्वायिणस्तावदाश्वनाशुचिरपरिनिर्वाणात् दृष्टान्तत्रयेण / उपपद्यपरिनिर्वायिण उपपद्याभिसंस्कारानभिसंस्कारपरिनिर्वाणात् / ऊर्ध्व स्रोतसः प्लतादिभेदात / सर्वेषां वा त्रयाणामाश्वनाशुचिरपरिनिर्वाणादिति त्रित्वम् / Akb. VI. .39 ab. See Sakv. p.561. 2 See Ang. IV. pp. 70 ff. V. infra. p. 341, n. 2. 3 प्लुतादिभेदादिति / प्लुतार्धप्लुतसर्वच्युतभेदादित्यर्थः / Saks. p. 562.-तत्र प्लुतो नाम य इह ध्यानानि व्यवकीर्य ध्यानत्रयात् परिहीणः प्रथमं ध्यानमास्वाद्य ब्रह्मकायिकेषुपपन्नः पूर्वाभ्यासवशाच्चतुर्थं ध्यानं व्यवकीर्य * तस्मात् प्रच्युतेऽकनिष्ठेषुपपद्यते / एष हि मध्यमनिमज्जनात् प्लुतः / अर्धप्लुतो नाम यस्ततः शुद्धावासेषुपपद्य मध्यादेकमपि स्थानान्तरं विलंध्याकनिष्ठान् प्रविशति / 'सर्वच्युतो नाम यः सर्वाणि स्थानान्तराणि संचार्यानिष्ठान् प्रविशति / Ab. VI. 38 a. See Saks. p. 560. 4 Cf. तद्विशेषः पुनः कर्मक्लेशेन्द्रियविशेषतः। AK. VI. 39 cd. 5 अन्तरोपपद्यपरिनिर्वायिणोः ऊर्ध्वस्रोतसश्च / Saky. p. 562. 6 अभिनिर्वृतिरन्तराभवः / Ibid. 7 कथं पुनरेते नवप्रकाराः क्लेशा भवन्ति ? इह क्लेशस्त्रिप्रकारो मृदुमध्याधिमात्रतर इति "| Ibid. V. supra, p. 165, n. 2. 8cf. त एते नवप्रकारक्लेशेन्द्रियत्वान्नवानागामिनो भवन्ति / कथं तहि सूत्रे सप्त सत्पुरुषगतयो देशिताः ? Akb. VI. 39 cd.