________________ +21.] षष्ठोऽध्यायः / . परमार्थदक्षिणीयभिक्षुसङ्घप्रवेशद्वारभूतत्वात्' भावनामयं न श्रुतमयं चिन्तामयम् / कुतः पुनरुपपत्तिप्रातिलम्भिकं भविष्यतीत्येतच्च सन्धाय Also cf. निर्वेधभागीयानि कुशलमूलानि ऊष्मगतः मूर्धानः सत्यानुकूलक्षान्तिः लौकिकाग्रधर्मश्च / ऊष्मगतं कतमत् / प्रत्यात्मं सत्येष्वालोकलब्धः समाधिः प्रज्ञासयोगश्च / मूर्धानं कतमत् / प्रत्यात्म सत्येष्वालोकवृद्धः समाधिः प्रज्ञासंयोगश्च / सत्यानुकूलक्षान्तिः कतमा / प्रत्यात्म सत्येष्वेकदेशप्रविष्टानुसृतः समाधिः प्रज्ञासंयोगश्च / लौकिकानधर्मः कतमः। प्रत्यात्म सत्येष्वानन्तर्यचित्तसमाधिः प्रज्ञासंयोगश्च / Asm. pp. 65-66. ध्यानविधिषु पौविको भवति चित्तस्यैकायतनप्रतिसंयोगः / ' क्रमेण प्रत्यवेक्षते कायं वेदनां चित्तं धर्मान् इत्यवतरन् धर्ममनःस्थिती सुविनीतैकाग्रचित्तस्य पारमार्थिकप्रज्ञाधिगमः / प्रत्यवेक्षते सर्वे संस्कारा: "अनित्याः""दुःखाः""शून्याः "अनात्मानः। ततो लभते ऊष्मधर्म चित्तोत्थापितम् / यथा मथनात्काष्ठेष्वनलोत्पादस्तथा बुद्धधर्मेषु परिशुद्धकुशलमूलश्रद्धोत्पादः / चतुभिः प्रत्ययः पश्यति षोडशाकारान् / चतुभिराकारैः पश्यति दुःखसत्यं "समुदय "निरोधमार्गसत्यम् / पश्यन् षोडशाकारकुशलधर्मान् नित्यमातापी विहरति वीर्यवानित्यूष्मधर्मः। एतस्मादूष्मतः कुशलमूलं संप्रवृद्धमुच्यते मूर्धा कुशलमूलम् ।""ऊष्मधर्मोत्तरमूर्धा उदृद्ध इति / सत्यक्षान्तिमनुगतो, मूर्धा नाम क्षान्तिकुशलमूलम् / त्रिविध एष अधिमात्रः मध्यः मृदुश्च / चतुःसत्यविपश्यनामुपादाय पश्यति षोडशाकारान् सत्यमनुसरन संप्रवर्धयति कुशलमूलमित्युच्यते लौकिकानधर्म इति ।""कश्चिदाह / लौकिकानधर्मो हि श्रद्धादीनि पञ्चेन्द्रियाणि / परमार्थतस्तु एकाग्रचित्तकाले चित्तचैतसिका धर्मा लौकिकाग्रकुशलमलमिति / Aam. pp. 83-84. The Mahayanistic interpretations of these terms are given in Aaa: एवं कृतधर्मप्रविचयः समाहितचित्तश्च सर्वधर्मनैरात्म्यं भावयन् क्रमेण यदा पृथग्भूताभिनिवेशाभावादीषत्स्पष्टज्ञानालोकेन मनोमात्रमेव पश्यति तदाऽस्योष्मगतावस्था। स एवात्रालोकलब्धो नाम समाधिरुच्यते महायाने। यदा तस्यैव धर्मालोकस्य वृद्धयर्थं नैरात्म्यभावनायां वीर्यारम्भेण मध्यस्पष्टो ज्ञानालोको भवति, तदा मूर्धावस्था / स एव वृद्धालोको नाम समाधिः / यदा तु चित्तमात्रावस्थानेन स्पष्टतरो बाह्यार्थाभिनिवेशाभावो ज्ञानालोको जायते, तदा क्षान्त्यवस्था / ग्राह्याकाराभावानुप्रवेशात्तत्त्वार्थंकदेशप्रविष्टो नाम समाधिः। . यदा पुनरर्थग्राहकविक्षेपानाभासो ज्ञानालोको निष्पद्यते, तदा लौकिकानधर्मावस्था / स एवानन्तर्यो नाम समाधिः / सर्वाश्चैता अवस्था दृढाधिमुक्तितोऽधिमुक्तिचर्याभूमिरुच्यते / Aaa. p. 64. 1 Cf. निर्वाणद्वारोद्घाटनप्रतिबल इति पृथग्जनधर्मेष्वग्रः प्रतीत्य प्रथमसत्यदर्शनं चतुराकारं""| Aam. p. 84. यानत्रयाधिगमप्राप्तये मृदूष्मगतं कुशलं हेतुरिति / अयं च हेतुभावः सर्वेषामेवोष्मादीनां वेदितव्यः। Aaa. p.50