________________ 410.] षष्ठोऽध्यायः। [403] अनागताश्चतस्रस्तु भाव्यन्ते तत्र निश्चयात् / प्राकाराः सकला ज्ञेयाः क्षान्तिविन्यसने श्रि (शृणु।' [404] सर्वत्रान्त्याः समुत्पन्नाश्चतस्रः खल्वनागताः / प्राकाराः सकलास्तत्र भाव्यन्ते चाप्यना गताः // [405 ] प्रत्युत्पन्नाग्र्यधर्मेषु धर्माख्या स्मृत्युपस्थितिः / अनागतास्तु भाव्यन्ते चतस्त्रस्तेषु निश्चयात् // ' [406] प्राकाराः खलुः चत्वारो दृङ्मार्गसदृशत्वतः / 3 यथोष्मकिरणे तद्वद् द्रष्टव्यं दृष्टिवर्त्मनि // [407] अन्त्यां मार्गान्वयज्ञाने प्रत्युत्पन्नां विनिदिशेत् / चतस्रोऽनागतास्तद्वत् षोडशाकारभावनात्' :) // [408] तदूर्ध्वमपि चार्यस्य सर्वापूर्वगुणोदये / श्रुतचिन्तामयं हित्वा सूक्ष्मसूक्ष्मं व्यपोह्य च // एवं तावदार्यस्य स्मृत्युपस्थानभावना द्रष्टव्या // [409] बालस्यारम्भमार्गे तु चतुर्भूमिविनिर्जयः / भतामन्यतरां ताभ्यश्चतस्रः खल्वनागताः / / [410] प्रानन्तर्यपथे मुक्तावन्त्यां सर्वास्त्वनागताः / अन्त्ये ध्याने प्रयोगादिमार्गेष्वष्टासु पूर्ववत् / / 1cf. क्षान्तीनां सर्वत्र चान्त्यम् / Akb. VI. 19 d.-आकरणे विवर्धने चान्त्यं धर्मस्मृत्युपस्थानं प्रत्युत्पन्नम् / तथा ह्यक्तम्-सर्वस्याः क्षान्त्या धर्मेण वर्धनमिति / Saks. p. 536. . 2 Cf. अग्रधर्मेष्वन्त्यमनागतानि चत्वारि | Akb. VI. 19 d:-अग्रधर्मेषु सम्मुखीक्रियमाणेष्वन्त्यं धर्मस्मृत्युपस्थानं प्रत्युत्पन्नम् / अनागतानि चत्वार्यनुत्पत्तिधर्माण्येव प्राप्यन्ते / Saks. p. 536. ___ 3 Cf. आकाराश्चत्वार एष / अन्याभावाद्दर्शनमार्गसावृश्याच्च / Akb. VI. 19 d. आकाराश्चत्वार एवेति / अनित्यदुःखशून्यानात्माकाराः। दर्शनमार्गसादृश्याच्चेति / दुःखाकारा एव चत्वारो भाव्यन्ते / कस्मात् ? दर्शनमार्गसादृश्यात् / दर्शनमार्गे ह्यस्य सत्यस्य दर्शनं भवति / तदाकारा एव भाव्यन्ते / दर्शनमार्गसदृशा ह्यमधर्माः / ... Sakv. p. 536.