________________ 324 अभिधर्मदीपे [399. [399] अनागतास्तु भाव्यन्ते चतस्रोऽप्यत्र निश्चयात् / मोक्षेऽन्त्ये संमुखीभूता[:] समग्राः खल्वनागताः॥' निरोधे तु प्रत्युत्पन्नं धर्मस्मृत्युपस्थानं चत्वारि त्वनागतानि भाव्यन्ते / / [400] आकाराः खलु सर्वेपि भाव्यन्ते गोत्रलाभतः / गोत्रानि (णि) खलु लब्धानि निरोध सत्यतोऽत्र षोडशाप्याकारा भाध्यन्ते। गोत्रलामे तु विज्ञेया सभागाकारभावना // प्रथमयोः सत्ययोः गोत्राणि आलम्बनानि / तेनात्र न विसभागाकारभावना // [401] सर्वत्राकिरणे मूनों निरोधाकिरणेधने। धर्माख्याः संमुखीभूताश्चतस्रः खल्वनागताः॥ मूर्धाकारविन्यासे 'निरोधाकिरणैधने' च धर्मस्मृत्युप स्थानं प्रत्युत्पन्नम्, चत्वार्यनागतानि भाव्यन्ते // 3 [402] प्राकाराः सकलास्तत्र भाव्यन्ते गोत्रलामतः / सर्वाभ्योऽन्यतरोत्पन्ना[:] सत्यत्रयविवर्धने // 1Cf. तत्रैव निरोधालम्बनेऽन्त्यमनागतानि चत्वारि / Akb. VI. 19 d.निरोधसत्यालम्बनेऽन्त्यं प्रत्युत्पन्नं संभवति / Sakv. p. 536. 2 Cf. आकाराः सर्वे लब्धत्वाद् गोत्राणाम् / Akb. VI. 19 d.-प्राकाराः सर्वेऽपि षोडशापि भाव्यन्ते। किं कारणम् ? लब्धत्वाद् गोत्राणाम् / सम्भवतश्चतुःसत्यालम्बनकायस्मृत्युपस्थानादिजातीनां लब्धत्वादिस्यर्थः। Saku. p. 536. The Kosakara deals in detail with gotras-निर्वेधभागीयानि त्रिगोत्राणि श्रावकादिगोत्रभेदात् Akb. VI. 23 c. See Akb. VI. 57 and 58. Yasomitra gives the following views : तत्र केचिदेवं वर्णयन्ति कुशलमूलानि गोत्रमिति / “अन्ये पुनराहुः पृथग्जनावस्थायामारभ्येन्द्रियभेदो गोत्रमिति / सौत्रान्तिकाः पुनर्वर्णयन्ति-बीजं सामथ्र्य चेतसो गोत्रमिति / Saks. pp. 593-4. On gotta, see The Bodhisattva Doctrine, pp. 51 ff. and AMBRA, pp. 55, 84-7. 3 Cf. मूर्धाकरणे चतुःसत्यालम्बनेऽपि निरोधालम्बनवर्धने चान्त्यमनागतानि चत्वारि / Akb. VI. 19 d.-मूर्धाकरणे सर्वत्रापि धर्मस्मृत्युपस्थानमेव प्रत्युत्पन्नम् / कायादिस्मृत्युपस्थानामाकरणेऽसामर्थ्यात् / निरोधालम्बनविवर्धनेऽप्यन्त्यं धर्मस्मृत्युपस्थानं प्रत्युत्पन्नम् / इतरेषामयोगात् / Saks. p. 536. ___4 Cf. आकाराः सर्वे / त्रिसत्यालम्बनवर्धने चतुर्णामन्यतमदनागतानि चत्वारि / Akb. VI. 19. d.