________________ 312 . अभिधर्मदीपे . [377. [377] सौमनस्येन रागस्य संप्रयोगः सुखेन च। रागः खलु सुखसौमनस्याभ्यां संप्रयुक्तः / ___ द्वेषस्य दौर्मण(न) स्येन दुःखेन च निगद्यते // ' संयोग इति वर्तते / प्रतिषः खलु दुःखदौर्मण (न) स्याभ्यां संप्रयुक्तः // [378] सर्वैर्मोहस्य मोहस्य तु पञ्चभिरपीन्द्रियैः संप्रयोगः / वित्तिभ्यां चैतसीभ्यामसदृशः / 2 / मिथ्यादृष्टिहि दौर्मण (न )स्यसौमनस्याभ्यां संप्रयुज्यते, पापकर्मणां पुण्यकर्मणां च यथाक्रमम् / काङ्क्षा च दौर्मण (न)स्येन सांशयितो हि निश्चि (श्व)याकांक्षी (काङ्क्षी) दौर्मण(न)स्येन संबध्यते / . शेषाणां सुमनस्तया। शेषास्त्वनुशया:-चतस्रो दृष्टयः, मानश्च / पार्षाक (हर्षाका) रवृत्तित्वात्सौमनस्येन संप्रयुक्ताः / / [379] उपेक्षया तु सर्वेषाम् सर्वेऽप्यविशेषेणानुशया उपेक्षयां संप्रयुज्यन्ते / प्रवाहच्छेदकाले खलु क्लेशानामवश्यमुपेक्षा संमुखीभवति / " कामाप्तानामयं विधिः / 1cf. सुखाभ्यां संप्रयुक्तो हि राग द्वषो विपर्ययात् / Ak. v. 55 ab. . 2 Cf. मोहः सर्वैरसदृष्टिमनोदुःखसुखेन तु / Ak. v. 55 cd.. 3 Cf. दौमनस्येन कांक्षाऽन्ये सौमनस्येन कामजाः। Ak. v. 60 ab. 4 चतस्रो दृष्टय इति / सत्कायदृष्टिः, अन्तग्राहदृष्टिः, दृष्टिपरामर्शः, शीलवतपरामर्शश्च / Saks. p. 496. 5 उपेक्षा सन्तिष्ठत इति विनाशावस्थायां मन्दत्वात् Saks. p: +96,