________________ 268 अभिधर्मदीपे [361. भवास्रवः चतुष्पञ्चाशद् द्रव्यानि (णि) / ' रागमानौ विंशतिः / अष्टौ विचिकित्साः। चतुर्विंशति दृष्टयोऽविद्या (द्यां) हित्वा। द्वे च पर्यवस्थाने स्त्यानौद्धत्याख्ये, परतन्त्रत्वात् / ' अविद्यास्रवः पञ्चदशद्रव्याणि / 3 तानि पिण्डेनाष्टोत्तरं द्रव्यशतमास्रवाणां स्वभावः / तथौघयोगा दृग्वज तत्पृथक्त्वन्तु पाटवात् // कामास्रव एव खलु कामोघः कामयोगश्च / दृष्टी वर्जयित्वा। दृष्टयस्तु पटुत्वात्पृथगोघेषु योगेषु च व्यवस्थाप्यन्ते / हरणश्लेषणकार्यप्रधानभूता हि दृष्टयः / यथा हि सर्वे क्लेशाः दृष्टिवाः , अपहरन्ति श्लेषयन्ति च 1 The Akb. discusses one more point : किं पुनः कारणं रूपारूप्यावचरा अनुशयाः समस्यैको भवाग्र उक्तः ? अव्याकृतान्तर्मुखा हि ते समाहितभूमिकाः। प्रत एकीकृताः। Akb v. 36 abc. v. supra, p. 226, n. 1. 2 Cf. ननु च तत्राप्यस्ति पर्यवस्थानद्वयंस्त्यानमौद्धत्यं च / प्रकरणेषु चोक्तम्-'भवास्रवः कतमः / अविद्यां स्थापयित्वा यानि तदन्यानि रूपारूप्यप्रतिसंयुक्तानि / संयोजनबन्धनानुशयोपक्लेपर्यवस्थानानि' इति / कस्मादिह तस्याग्रहणम् / अस्वातन्त्र्यादिति काश्मीराः / Akb. v. 35. -कस्माविह तस्याग्रहणमिति / तस्य पर्यवस्थानद्वयस्य / अस्वातन्त्र्याविति / कथमस्वातन्त्र्यम् / रागादिसंप्रयोगित्वादीादिवदविद्यामात्रासंप्रयोगित्वाच्च / एतद्धि द्वयं रागादिभिः सम्प्रयुज्यते। न तामात्सर्यकोकृत्यक्रोधम्रक्षाः / स्वतन्त्राः। अविद्यामात्रेण संप्रयोगादिति / Sakv. p. 485. 3 Cf. किं कारणमसौ पृथग्व्यवस्थाप्यते / सर्वेषां हि तेषां मूलमविद्य त्यास्त्रवः पृथक् / Akb. v. 36 d. 4 Cf. तथौधयोगा दृष्टीनां पृथग्भावस्तु पाटवात् / Ak. v. 37 ab. 5 दृष्टियोग इह चतुर्थ उक्तः। तेनाह अन्यत्र दृष्टिभ्य इति / ता: किलेति / किलशब्दः परमतयोतकः / विनेयजनवशात्तु दृष्टियोगः पृथगुक्त इत्यभिप्रायो युज्यते / Saks. p. 486. 6 Cf. नात्रवेष्वसहायानां न किलास्यानुकूलता | Ab. v. 37 cd. प्रासयन्तीत्यास्रवाणां निर्वचनं पश्चाद्वक्ष्यते / न च किल केवला दृष्टय आस्यानुकूलाः -आत्रवेषु दृष्टयः किमर्थ न पुथग्व्यवस्थापिता इत्याह ।""असहायानां दृष्टीनामास्यानुकूलताऽवस्थानानुकूलता चलत्वात्पटुत्वाच्च न भवति / नासनानुकूलतेत्यर्थः / "Saks. p. 486.