________________ 269. ] पञ्चमोऽध्यायः / 229 ते ह्येकान्तेनान्वयक्षान्ति' वध्याः / ज्ञानवध्यास्तु ये तस्मिन्नभ्यासेनैव तत्क्षयः / / एवमन्यास्वपि भूमिषु येऽनुशया ज्ञानवध्यास्त आर्याणां पृथग्जनानां च भावनामार्गेणैव प्रहीयन्ते / शेषास्तूभयथा। यथायोगं शेषासु खलु भूमिषु यथासंभवं धर्मान्वयक्षान्तिवध्या अनुशया आर्याणां दर्शनहेयाः, "पृथग्जनानां च भावनाहेया इति बोद्धव्यम् / / अथ या इमाः पञ्च दृष्टयो धात्वाकारप्रकारभेदेन षट्त्रिंशद्धा भिन्नास्तासां प्रत्येकं कः स्वभावः५ ? तदारभ्यते[269] अहं ममेति या दृष्टिरसौ सत्कायदृक् स्मृता / तदुच्छेदध्र वग्राही यौ सान्तहिदङ्मता // हेतुबलसामर्थ्यादसच्छास्त्रश्रवणाच्च पृथग्जनस्याहं ममेमि पञ्चसूपादानस्कन्धेषु य आत्मग्राहः सा सत्कायदष्टिरित्युच्यते / सति सीदति वा काये दष्टिविपरीताकारा सत्कायदृष्टिरिति [निर्वचनम् / सैषात्मात्मीयाकारभेदा[द्] द्विप्रकारा। पुनः पञ्चस्कन्धालम्बनाः पञ्चात्मदृष्टयो भवन्ति / 1 V. infra, Ad. karikas 423-424. 2 द्विविधो हि भावनामार्गः लौकिको लोकोत्तरश्च / Sakv. p. 447. 3 After this, the Akb has : नैव हि बााकानां दर्शनप्रहातव्याः प्रहीयन्त इत्यपरे / 'दृष्टयुत्पादसमकालं ते परिहीणा देवदत्त इवेति वैभाषिकाः। Akb. v. 6 d. See Saks. pp. 447-450. 4 आकारप्रकारधातुभेदरिति / आकारभेदो दशानामनुशयानां 'आत्मात्मीयध्रुवोच्छेदनास्तिहीनाग्रदृष्टयः' इत्येवमादिकः / प्रकारभेदो दु:खदर्शनप्रहातव्यो निकायो यावद्भावनाप्रहातव्य इति / धातुभेवः कामावचरः, रूपावचरः, आरूप्यावचर इति / Saks. p. 436. 5 Cf.आत्मात्मीयध्रुवोच्छेदनास्तिहीनाग्रदृष्टयः / अहेत्वमार्गे तदृष्टिरेतास्ताः पञ्चदृष्टयः // Ak. v. 7. & Compare this definition of satkaya-drishti with Acharya - Samghabhadra's definition, as given by LVP:-Samghabhadra (xxiii. 5, : 9 b) explique : Par la force de la cause (hetu, sans doute sabhagahetu, ..) et de l'enseignement, des sots reconnaissent-moi-et-mien-dans les cinq upadana-skandhas. Cette vue est nommee satkaya-drishti...LVP Ak. v. p. 15. note 3. The Kosakara gives the following definition : Traefocarrataglozaf सत्कायदृष्टि: / सीदतीति सत् / चयः कायः संघात इत्यर्थः / सच्चायं कायश्चेति सत्कायः / पञ्चोपादानस्कन्धाः Akb. v, 7.