________________ 262.]. पञ्चमोऽध्यायः। 225 कथम् ? उक्तोत्तरत्वात् / उक्तमत्र कर्मचिन्ता' यामुत्तरं तत्त्वसप्ततौ च / तस्मथताम् / मा प्रमोषीः / पुनश्चापदिश्यते। सौत्रान्तिकपरिकल्पिते प्रतिबीजकल्पे चित्तशक्तिवीजभावनापक्षे निवृत्त्युत्तरमन्यानन्यत्वादिदोषात् / नान्यानन्य इति बीजवासनावस्थाने चित्तविनाशाभ्युपगमे च मध्यमाप्रतिपत्सिद्धिरिति चेत् / न / चित्तस्वभावशक्तिक्रियाभावे तदन्तद्वयासिद्धौ मध्यमाप्रतिदनुपपत्तेः ख पुष्पमयदण्डवत् / ते पुनः [262] रागद्वेधात् मताः सप्त३ दृष्टिभेदाद्दश स्मृताः। भूयोऽष्टानवति या धात्वाकारादिभेदतः // तत्र कायरागभवरागभेदं पुरस्ताद्वक्ष्यते / दृष्टिभेदोऽपि सत्कायदष्टयादिभेदेन पञ्चधा। रागभेदं च द्विधा वक्ष्यामः / ते पुनरेते सर्व एवानुशया यथासंभवं धात्वाकारप्रकारभेदेनाष्टान वतिर्भवन्ति / तत्र केचित्पण्डिता दर्शयन्ति / धातुभेदेन कामावचराः षत्रिंशदर्शण(न) भावनाहेयाः / द्वात्रिंशद्दर्शनहेयाः। रूपावचरा एकत्रिशदुभयहेयाः, अष्टा. विशतिर्दर्शनहेयाः पञ्च प्रतिघवाः / एवमारूप्यावचराः / तत्र कथं कामावचराः षड्त्रिंशद्भवन्ति ? दर्शनभावनाहेयप्रकारणे (ने). यम्य [भेदात् / दृष्टीनामपि धात्वाकारप्रकारभेदात् षट्त्रिंशत्वम् / प्रतिघस्य धातुनयम्यात् पञ्चत्वम् / वयं पुनरेषां भेदं श्लोकानुगतमेव दर्शयिष्यामः / ___ तत्र कत्येषामष्टानवतेरनुशयाणां दुःखदर्शनहेयाः कति यावद्भावना. हेयाः ? तत्र कामधातौ तावत् / प्रतिदुःखादिसत्यं यथाक्रमं दश सप्त सप्ताष्टौ दुःखादिदर्शण (न)हेया द्वात्रिंशत्का मधातौ भवन्ति / तेषु तेषां विप्रतिपत्तेः। एवं रूपारूप्यधात्वोरभ्युह्य वक्तव्यम् / / 1 This refers to the Fourth Adhyaya of Adv. R Tattva-saptati appears to be a title of some work by the author of Adv., written on the model of the Paramartha-saptati of Vasubandhu. 3 Cf. षड्रागभेदात्सप्तोक्ताः / Ah. v. 2 a. 4 पुनरेते षडनुशया अभिषौ दश क्रियन्ते। Akb. v. 2 d. -अभिधर्म इति न सूत्र इत्यभिप्रायः। Saks. p. 445. 15