________________ 256.] . चतुर्थोऽध्यायः / 217 चित्तभावनात् / यथा तैलं पुष्पैश्चम्पकादिभिर्वासितं तन्मयि भवति तत्समाधिसंप्रयुक्तैस्तत्सहभूकश्च धर्मंश्चित्तं "भावितं वासितमित्युच्यते, तन्मयीकरणात् / न चैवमसमाहित मिति / समाहितमेव चित्त (तं) भावनामयं पुण्यक्रियावस्तु मैत्र्यादिगुणसंप्रयुक्तं द्रष्टव्यम् / कथं पुनरेतत्पुन्य(ण्य)क्रियावस्तु मन्तव्यम् ?' किं पुण्यं क्रिया च वस्तु च पुण्यक्रियावस्तु, समाहारलक्षणोऽयं द्वन्द्वः समासोऽथ पुण्यक्रिययोर्वस्तु पुण्यक्रियावस्तु ? 'अथ पुण्यक्रियाया वस्तु पुण्यक्रियावस्त्विति ?2 यथा न दोषस्तथास्तु / कथं च न दोषः ? तत्र तावत् / कायवाक्कर्मस्वभावत्वात् त्रिधा कुशलत्वात्पुण्यम् / कर्मात्मकत्वात्क्रिया। तत्समुत्थापिकायाः (याश्चे. तनाया अधिष्ठानात्वाद्वस्तु / या तत्समुत्थापिका चेतना सा पुण्यं च क्रिया च, तत्सहभुवो धर्माः पुण्यमेव / शोलमयं तु काय वाक्कमवेति विधा भवति / भावनामयं मंत्रो पुण्यं च पुण्यक्रियाश्च वस्तु / तत्संप्रयुक्तायाश्चेतनाया मैयधिष्ठानेनाभिसंस्काराणां मंत्रीसहभूचेतना शोलं च पुण्यक्रिया च। अन्ये तत्सहभुवः पुण्यमेवेति / 3 तत्पुनरेतद्भावनामयं पुण्यक्रियावस्तु सर्वं तत्सर्वहेतुत्वेऽ।ि सति .. प्रधान्यादपवर्गाय तदुक्तं सर्वदशि ना // उत्तमार्थप्राप्तये खल्वासन्नतमो हेतुर्भावनेति कृत्वा भगवता भावनामयमेव कुशलमूलं विसंयोगाय विधियुक्तमुक्तम् / पुण्यक्रियावस्तुभेदेन त्रिप्रकारं शुभम् / पुनरण्ये(न्ये)न प्रकारत्रयेण शुभभेदो व्याख्यायते 1 Cf. पुण्यं क्रियाऽथ तद्वस्तु त्रयं कर्मपया यथा। Ak. IV. 112 cd. .. 2 Cf. पुण्यमप्येतत् त्रयं क्रियापि वस्त्वपि यथायोगमिति पुण्यक्रियावस्तु / तद्यथा कर्म च ते पन्थानश्च पन्थान एव च कर्मण इति कर्मपथा उक्ताः। Akb. IV. 112 cd. . पुण्यं तावदिष्टविपाकत्वात् / क्रिया कर्मस्वभावत्वात् / वस्तु तत्समुत्थानचेतनायास्तदधिष्ठाय प्रवृत्तेः / Saks. p. 433 3 Cf. अन्ये तत्सहभुवः पुण्यमेव पुण्यस्य वा कारणं पुण्यक्रिया पुण्यप्रयोगस्तस्या एतानि त्रीणि वस्तूनि / एषां सम्पादनार्थं पुण्यप्रयोगारम्भादिति / कुशलचेतना परमार्थेन पुण्यक्रिया, तस्या एतानि वस्तूनीत्यपरे / Akb. IV. 112 cd. 4 Cf. स्वर्गाय शीलं प्राधान्याद्विसंयोगाय भावना। Ab. IV. 124 ab. 5 After this, the Kosakara deals with one more point : सूत्र उक्तम् - "चत्वारः पुद्गला ब्राह्मं पुण्यं प्रसवन्तीति"। कतमत्तद्ब्राह्मपुण्यम् ? यत्तल्लक्षणविपाकस्य कर्मणः परिमाणज्ञापनायोक्तमिति वैभाषिकाः / पूर्वाचार्यास्तु व्याचक्षते. चतुर्णा ब्राह्मपुण्यत्वं कल्पं स्वर्गेषु मोदनात् / Akb. IV. 124 cd. See Ang. v. p. 76.