________________ 174 अभिधर्मदीपे [201 तत्र द्वाभ्यां सह वर्तते / कुशलेषु पञ्चसु विज्ञानेषु' स्थितस्यारूप्यसमा. पत्ति संग्रहीते च क्षयानुत्पादज्ञान संप्रयुक्तविज्ञानं तत्सं[प्रयुक्ता च] "प्रज्ञानदृष्टिरिति / त्रिभिः सह वर्तते / सम्यग्दृष्टिसंप्रयुक्ते मनोविज्ञाने / यत्र संवरो णा (ना) स्ति। चतुभिरकुशलाव्याकृतचित्तस्यो पासकस्य श्रामणेरसंवरसमादाने / षड्भिः कुशलेषु पञ्चसु विज्ञानेषु तत्समादाने / सप्तभिः कुशले मनोविज्ञाने तत्समादान एव / अकुशलाव्याकृतचित्तस्य [च भिक्षु] संवरसमादाने / नाष्टाभिरेव। भिक्षुसंवरसंगृहीतानां कायिकवाचिकानां क्लिष्टाव्याकृतावस्थायां सप्तानामेव संभवात् / कुशलचित्तावस्थायां च नवानां दशानां वा संभवात् / पारिशेष्याद् द्वयादिभिः सह वर्तत इत्युक्तं भवति / Sakv. p. 416. 1 कुशलेषु पञ्चसु विज्ञानेषु अनभिध्या चाव्यापादश्च स्तः न सम्यग्दृष्टिः / “पञ्चविज्ञानसहजा धोर्न दृष्टिरतीरणात्" इति सिद्धान्तात् / [V. supra, p. 29, n. 5.] अतो ऽनभिध्याऽव्यापादाभ्यां द्वाभ्यामेवात्र सह वर्तते / Ibid. . 2 आरूप्यसमापत्तिग्रहणं ध्यानसमापत्तिसंगृहीतयोः क्षयानुत्पादज्ञानयोः सप्तविधकायिकवाचिकानास्रवसंवरस्वभावकर्मपथनिवृत्त्यर्थम् / Ibid. 3 क्षयानुत्पादज्ञानग्रहणं सम्यग्दृष्टिनिरासार्थम् / . क्षयानुत्पादज्ञानयोरसम्यग्दृष्टिस्वभावत्वात् / Ibid. V. infra, Ad. karika 441. 4 सम्यग्दृष्टिसंप्रयुक्त मनोविज्ञाने रूपिकर्मपथाभाव इति वाक्यशेषः / तत्र ह्यनभिध्याऽव्यापादसम्यग्दृष्टय एव त्रयः कर्मपथा भवन्तीति / Saks. p. 416. 5 अकुशलाव्याकृतचित्तस्येति विशेषणान्मानसा न सन्तीति दर्शितं भवति / Ibid. 6 उपासकश्रामणेरसंघरसमादाने च / प्राणातिपातादत्तादानकाममिथ्याचारमषावादविरतिलक्षणाश्चत्वार एव कर्मपथाः सन्ति / मद्यपानादिविरतीनां दशकर्मपथानन्तर्भावात् / पैशुन्यविरत्यादीनां चोपासकश्रामणेरसंवरसंग्रहात्। श्रामणेरसंवरसमादानवचनाच्चोपवाससंवरसमादानमुक्तरूपमवगन्तव्यम् / श्रामणेरसंवरसमादाने त्वब्रह्मचर्याद्विरतिस्तृतीयः कर्मपथः / तत्र च काममिथ्याचारोऽन्तर्भूत एव / Ibid. 7 विज्ञानकायेषु in Akb. IV. 81 cd. 8 .."भिक्षुसंवरसमादाने सप्तभिरेव रूपिभिः। न मानसः। अकुशलाव्याकृतचित्तत्वात् / Ibid.