________________ 991.] . चतुर्थोऽध्यायः। [171 उक्तोत्तरत्वाच्च / विस्तरेण ह्यत्रोत्तरमुक्तम् / ' तत्स्मर्यतामिति / आगमविरोधोऽपि, “सर्वं सर्वेण च्छे [त्स्य "ते" इति....."च्य]मानं बीजमवस्थितं गंस्यते / इति / व्याख्याताः सलक्षणाः कर्मपथाः // कः पुनः सलक्षणः कर्मपथार्थः ? कर्म च कर्मणश्च चेतनाख्यस्य पन्थान इति कर्मपथाः। तत्र सप्त कर्म च कर्मणश्च पन्था[इ]ति कर्मपथाः, त्रयस्त्व. भिध्यादयः कर्मणः पन्थानो न कर्म / 2 चेतना [हि तत संप्रयोगिणो भवति / Yasomitr.i's answer to this is as follows :- अत्र वयं बमः। अनर्थान्तरभावे सांकर्यदोषो भवेत् / तत्त बीजं न चित्तादर्थान्तरं वक्तव्यम् / नाप्यनन्तरम् / उपादायप्रज्ञप्तिरूपत्वात् / अथाप्यनर्थान्तरभावः, तथाप्यदोषः / कुशलेन हि चित्तेनोत्पन्नेन स्वजातीयेऽन्यजातीये वा स्वसंतानचित्ते बीजमाधीयेत / ततः कारणविशेषात् कार्यविशेष इति विशिष्टम् / तेन तच्चित्तमुत्पद्यत / तद्विशिष्टं चित्तं कुशलबीजकार्यक्रियायां समर्थमुत्पद्येत / ..."इत्येवमन्योन्यबीजाधायकमन्योन्यजनकं च चित्तं चित्तान्तरादुत्पद्यमानमन्योन्यवास्यवासकत्वेन प्रवर्तते / न च कुशले नाकुशले चित्ते शक्तिविशेष आहित इति तदकुशलं कुशलतामापद्यते कुशलं वा तदकुशलतां शक्तिविशेषमात्रत्वात् / शक्तिबीजं वासनेत्येकोऽयमर्थः ।..."भवतामपि वैभाषिकाणामिदं चिन्त्यते / यदा सासवचित्तसमनन्तरमनास्रवमनास्रवचित्तसमनन्तरं वा सासवचित्तमुत्पद्यते / तदा किं पूर्वंकः सास्रवकलापोऽनास्रवकलापो वा शक्तिमान् समनन्तरप्रत्ययादिभावनोत्तरकलापोत्पत्तावुताशक्तिमान् ।"तेन यदुक्तं नन्वकुशलं कुशलस्य बीजमन्युपगत भवतीत्यादि तदयुक्तम् / न हि कुशलाहितेन शक्तिविशेषेण विशिष्टं समर्थमकुशलमकुशलबीजकार्यं करोति / स्वहितेन तु शक्तिविशेषेण तदकुशलं स्वबीजकार्य करोति / तत् कथमिदमुच्यते कुशलस्याकुशलं बीजमिति। ब्रूयास्त्वमकुशलचित्ते तत्कुशलबीजमाहितं किमकुशलं न भवतीति / न भवन्तो बीजार्थं जानते। कुशलेन चित्तन निरुध्यमानेन तथा शक्तिविशिष्टमकुशलं चित्त जन्येत / यथा तच्चित्तं स्वोत्पत्तियोग्यं भविष्यति साक्षात पारम्पर्येण वेति शक्तिविशेष एव बीजम् / न बीजं नामास्ति किञ्चित्प्रज्ञप्तिसत्वात् / Saks. pp. 148. ff. 9 The Dipakara must have dsscussed this topic in detail in the Second Adhyaya, while dealing with prapti and aprapti. V. supra, p. 37, n. 4. 2 Cf. त्रयो पत्र पन्थानः सप्त कर्म च / AR. IV. 78d. अभिध्यादयो हि त्रयः कर्मणः पन्थान इति कर्मपथाः / Akb. IV. 78d.-'कर्मणः पन्थान' इति चेतनाख्यस्य कर्मणः पन्थानः / कथमित्याह / 'तत्संप्रयोगिणी हि चेतना / अभिध्यादिसंप्रयोगिणी तेषामभिध्यादीनां 'वाहेन' गत्या 'वहति'। गच्छतीत्यर्थः। 'तद्वशेन तथाभिसंस्करणात् / ' यस्मादभिध्यादीनां यथाक्रमं सक्ति-प्रतिकूलमिथ्या-नितीरणाकाराणां वशेन / तदनुरूपा चेतनाऽभिसंस्करोति / चेतयत इत्यर्थः। अतस्तेषां वाहेन वहति / 'कर्म च। कायवाक्कर्मस्वभावत्वात् / कर्मणश्च चेतनास्यस्य 'पन्थान' इति कर्मपथाः।