________________ 195.]. चतुर्थोऽध्यायः / 157 ताद्वयपरोपयति, एवं प्राणातिपातो भवति / प्राणो वा वायुः' कायचित्ताश्रितो वर्तते / तमतिपातयतीति प्राणातिपातः / __न, अनुपपत्तेः। विनाशानुषक्ता खलु संस्काराः प्रतिक्षणविनश्वराश्चा'. भ्युपगम्यन्ते। तेषामित्थंभूतानां स्थितिशक्तिक्रियाऽभावे सत्यनागतानां च तुल्यातुल्यजातोयानां निरात्मकत्वाविशेषे केन हन्त्रा किमापद्यते ? अत्र सौत्रान्तिका:२ परिहारमाहुः-"न। प्रदीपणि (नि)पण (न)घण्टशब्दनिरोधवत्तत्सिद्धेः / " न, समानत्वात् / अयं त्वत्र परिहारः-हन्तुर्हेतुसामोपघातकरणे सत्यनागतसंस्कारशक्तिक्रियाधान विधानविघ्नकरणात् प्राणातिपातोपपत्तिः / कस्य पुनस्तज्जीवितं यस्तेन वियोज्यते, ते वा प्राणा इति ? प्रसिद्धस्य 1 Cf. तत्थ पाणस्स अतिपातो पाणातिपातो नाम.....। पाणो ति चेत्थ वोहारतो सत्तो, परमत्थतो जीवितिन्द्रियं / Dhs A. III. 143. The Kosakara does not say that this is a view of Sautrantika :कथं क्षणिकेषु स्कन्धेषु प्राणातिपातो भवति ? प्राणो नाम वायुः कायचित्तसन्निधितो वर्तते / तमभिपातयति / यथा प्रदीपं घण्टास्वनं च। जीवितेन्द्रियं वा प्राणस्तन्निरोधयति / Akb. IV. 73 ab. V. supra, p. 33. n. 2. ____ -- कथं चित्तसन्निश्रितो वायुः प्रवर्तते ? चित्तप्रतिबद्ध वृत्तित्वात् / तथा हि निरोधासंज्ञीसमापत्तिसमापन्नरय मृतस्य च न प्रवर्तते / शास्त्रेऽप्युक्तम् / तं प्राणं विनाशयती यर्थः / उत्पन्नस्य स्वरसनिरोधादनागतस्योत्पत्ति प्रतिबध्नन् निरोधयतीत्युच्यते / यथा प्रदीपं निरोधयति घण्टास्वनं वा, क्षणिकमपि सन्तम् / कथं च स निरोधयति ? अनागतस्योत्पत्तिप्रतिबन्धात् / Sakv. p. 405. ... This explanation is criticised by Siddhasena:-यच्चाशङ्कयोक्तम्-स्वरसभगुरेषु भावेषु क्षणिकेषु परकीयप्रयत्ननिरपेक्षेषु वायुप्राणस्योत्क्रान्तिः स्वयमेव भवति न परप्रयत्नेन विनाश्यते, वायुप्राणातिपातहेतुकत्वान्नाशस्य / किं तर्हि प्रयत्नः करोति / प्रमागतस्य क्षणस्योत्पत्ति प्रतिबध्नातीति / एतदप्यत्यन्तमयुक्तम्-अनागतस्त्वलब्धात्मलाभः क्षणो न तावदुत्पद्यते स चाभावस्तस्य कुतः प्रतिबन्धः ?, असत्त्वरूपत्वात् खरशृङ्गस्येव / अतो नाभावः कर्तुं शक्यः / प्रतिबन्धाप्रतिबन्धौ च भावविषयो / Tattvartha-luka, VII. 8. 3 स्मर्तव्यं च प्राणातिपातलक्षणं स्वं सौगतेन-प्राणी यदि भवति प्राणिविज्ञान चोत्पद्यते हन्तुः / न चाऽभावः प्राणी न च प्राणिसंज्ञा तत्र हेतुरिति / "यच्चोक्तं-कायस्यैव सेन्द्रियस्य तज्जीवितेन्द्रियं व्यपदिश्यते न त्वन्यस्यात्मनोऽभावाद् इति / तदप्यसमीचीनम् / यत एकस्थितवस्तुनिबन्धनाः सर्वेऽप्यनुभवस्मरणप्रत्यक्षानुमानार्थाभिधानप्रत्ययव्यवहाराः। स चैकः स्थितश्चात्मा। सति तस्मिन् पुरुषार्थप्रवृत्तिप्रतिपत्तिरिति / " सञ्चिन्त्य परस्याम्रान्तिमारणमिति भिन्नाः सञ्चेतनाविलक्षणाः मारणावसानास्तत्र कस्य प्राणातिपात:-कि संचेतयितुः, अथ यस्य परविज्ञानमुभयस्याभ्रान्तिः, अथ येम मारिता इति / Ibid.