________________ अभिधर्मदीपे [170 [170] सद्धर्मान्तद्धितोऽन्येऽन्ये नापूर्वाप्रतिलम्भतः / अन्ये पुनर्बवते-सद्धर्मान्तर्धानेऽपि संवरत्यागो भवति। तत्तु नवम्। यस्माद वस्तदा नोत्पद्यते / उत्पन्नस्तु यथोक्त रेव कारणैविनश्यति / / . अथ ध्यानानास्रवसंवरयोस्त्यागः कथम् ? तदिदमपदिश्यते भूसंचारेण हान्या च त्यज्यते ध्यानजं शुभम् // सर्वमेव खलु ध्यानाप्तं कुशलं द्वयाभ्यां कारणाभ्यां त्यज्यते / उपपत्तित्तो वा भूमिसंचारादध्वं वाऽधो वा। परिहाणितो वा। समापत्तेनिकायसभागत्यागा. च्चेति // [171] तथाऽऽरूप्याप्तमार्यन्तु फलाप्त्यक्षविहानिभिः / / "यथैव रूपाप्तं कुशलं भूमिसंचारहाणि (नि) भ्यां त्यज्यते तथैवारूप्याप्तम्। आर्य तु कुशलं त्रिभिः कारणस्त्यज्यते / फलप्राप्तितः पूर्वको मार्गस्त्यज्यते / / इति तस्य कीदृशो भिक्षुभावः ? यादृशस्तादृशोऽस्तु अस्ति तु भिक्षुभावः।"यदि हि दौःशील्यादि भिक्षुः स्यात्, शिक्षादत्तको न स्यात् / न वयं ब्रूमः सहायाध्यापत्त्या सर्वः पाराजिक / इति / यस्तु पाराजकः सोऽवश्यमभिक्षुः। कश्चित्तु सन्तानविशेषान्न पाराजिक एकचित्ते. नाप्यप्रतिच्छादनादिति व्यपस्थापितं धर्मस्वामिना / यदि तहि पाराजिको न भिक्षुः कि पुनर्न प्रव्राज्यते ?""कश्चायमनर्थे निर्बन्धो यद्यसौ तयाभूतोऽपि भिक्षुर्नमोऽस्तु तस्मै तादृशाय भिक्षुत्वाय / Ab, IV. 39 cd.. See Aaa. p. 456. 1. Cf. सद्धर्मान्तद्धितोऽपरे। सद्धर्मस्यान्तीनादित्यपरे। यस्मादन्तहिते सद्धर्मे सर्वशिक्षासीमाकर्मान्ताः प्रतिप्रनभ्यन्त इति / "सद्धर्मान्त ने तु विनयकर्माभावादपूर्वसंवरलाभो नास्ति / लब्धस्य तु नास्ति त्यागः | Akb. IV. 39a. 2 Cf. भूमिसंचारहानिभ्यां ध्यानाप्तं त्यज्यते शुभम् / Ak: IV. 40 ab. 3 निकायसभागत्यागाच्च किञ्चिदिति / निर्वेधभागीयं यत् पृथग्जनावस्थायामुत्पादित यावत्क्षान्तिरिति / तदसत्यपि भूमिसंचारे निकायसभागत्यागेन त्यज्यते / यदा कामधाती मृत्वा तत्रैवोपपद्यते / Saks. p. 387. ... 4 Cf. तथाऽरूप्याप्तमार्यन्तु फलाप्स्युत्पत्तिहानिभिः / Ak. IV. 40 cd. 5 This passage (from यथैव रूपाप्तं to तावत्संवरस्त्यज्यते) is almost identical with Akb. IV. 40 cd. 6 पूर्वको मार्ग इति / प्रयोगानन्तर्यविमुक्तिमार्गस्वभावः प्रतिपन्नकमार्गः। Saks. p. 388.