________________ 76.] द्वितीयोऽध्यायः / [ 74] नामसल्लक्षणाभावात्तन्नाम्नः . सार्थकत्वतः। . त्रयाना(णां) वर्गवृत्तित्वेऽप्यर्थमभ्येष्यते परैः / / यत्खलु संवतिसत्यस्य लक्षणं तत्तेषां नास्ति क्रियापौरुष्यद्वारेण तच्छब्दप्रवृत्तेः, लौकिकाग्रधर्मवत् / सार्थकत्वात्तन्नाम्नोऽर्थवत्तत्खल्वेतन्नाम्नेति // *स्त्रीपुरुषेन्द्रियस्यापि[75] विशिष्टबुद्धिहेतुत्वादाधिपत्यविशेषतः / __ कायेन्द्रियाद्विशिष्टत्वं द्वयोणे(न)त्रेन्द्रियादिवत् / / यथैव हि चक्षुरादीनि कायेन्द्रियविशिष्टाणि (नि) विशिष्टबुद्धिजनकत्वादाधिपत्यविशेषाच्च, तद्वदनयोरपोति / / कः पुनरिन्द्रियार्थस्तदारभ्यते[76 ] ऐश्वर्यार्थी विपश्चिद्भिरिन्द्रियार्थोऽभिधीयते।' केषु पुण (न) रर्थेषु केषामीशित्वम् ? वयं तावत्पश्यामः- स्वार्थव्यक्तिषु पञ्चानां चक्षुरादीनां पञ्चानां स्वार्थप्रकाशनक्रियायामाधिपत्यं समविषममार्गालोचनादित्यर्थः। चतुर्णां त्वर्थयोर्द्वयोः / जीवितमनस्त्रीपूरुषेन्द्रियानां (णां) प्रत्येकमर्थद्वये। तत्र तावज्जीवितेन्द्रियस्य - नि कायसभागसंबन्धसन्धारणयोः। मनइन्द्रियस्यापि संक्लेशव्यवदानयोः / यथोक्तम्-"चित्तसंक्लेशात् सत्त्वाः संक्लिश्यन्ते चित्तव्यवदा 1Cf. विषयग्रहणाधिपतितोऽपि कुशलप्रबन्धाधिपतितोऽपि शुभाशुभकर्मफलभोगाधिपतितोऽपि लौकिकवैराग्याधिपतितोऽपि शुभाशुभकर्मफलभोगाधिपतितोऽपि लोकोत्तरवैराग्याधिपतितोऽपि इन्द्रियं द्रष्टव्यम् / Asm. p. 30. Cf. also, इन्द्रियार्थः कतमः / बलवत्त्वं पटुत्वं चेति इन्द्रियार्थः / Aan. p. 75. 2 Cf. चतुर्वर्थेषु पञ्चानामाधिपत्यं द्वयोः किल / चतुर्णा पञ्चकाष्टानां संक्लेशव्यवदानयोः // Ak. II. 1. .. 3 Cf. निकायसभागस्थिती जीवितेन्द्रियस्याधिपत्यम् / न तु वैभाषिकवत् निकायसभागसम्बन्धे, तत्र मनस एवाधिपत्यात् / Saks. p. 97.