________________ * श्रीगुरुः शरणम् * प्रस्तावना [पण्डितराजः श्रीराजेश्वरशास्त्री द्राविडः ___ काशीस्थवल्लभरामशालिग्रामसाङ्गवेदमहाविद्यालयाध्यक्षः।] . . न्यायाचार्यश्रीमदुदयनाचार्यप्रणीतो न्यायकुसुमाअलिग्रन्थः वर्धमानप्रकाशमकरन्दमेघठक्कुरबच्चामाकृतटीकाप्रटीकादिभिः सम्भूषितः नूतनतया निजेनामोदेनामोदयन् सहृदयमनांसि पुरःस्थितो दृश्यते / नास्तिकदर्शनेष्विवास्तिकदर्शनेष्वपि निरीश्वरवादिमतं साथैः मीमांसकैश्वातं खण्डयित्वा अत्र ग्रन्ये ईश्वरतत्त्वसाधनिका कृता। तस्याः साधनिकाया एतावतवात्युत्कृष्टत्वं सिद्ध्यति यत् न्यायाचार्यमतानुसारेण इच्छाविशेषरूपां शाब्दीभावनामङ्गीकुर्वन् खण्डदेवः स्वनिमितायां भादीपिकायां ईश्वरनिराकरणपराणि मीमांसासूत्राणि शाबरभाष्यपूटीकाद्यनुसारेण व्याचक्षाणोऽपि अन्ते भीतभीतः मम त्वेवं वदतोपि जिह्वा दूषयति इति हरिस्मरणमेवात्र शरणमिति प्रायश्चित्तं विदधौ। ब्रौद्धास्तु स्वसमय एवाचार्यैः भारतवर्षादुत्खाताः इत्यही प्राचार्याणां वैदुष्यातिशयः प्रभावातिशयश्च / ऐतिहासिकदृष्टया पुराणवाङ्मयनिर्माणानन्तरं सहस्रसम्वत्सरात्मके काले आयुर्वेदप्रन्थान् सुश्रुतवाग्भटादीन् विहाय दर्शनप्रतिपादकः वर्णाश्रमिणां कोऽपि शास्त्रीयो प्रन्थः प्रामाणिकैराहतः यन्नोपलभ्यते महाभाष्यं विहाय, तेन एतत्सुष्ठ्ववगम्यते बौद्धधर्मानुसारिणां राज्ञां काले वर्णाश्रमिणां विद्याः क्रमशो विलुप्यमाना श्रासन् राजकीयप्रभावातिशयात् / तथापि आयुर्वेदविषयस्यारोग्याश्रितत्वात् बौद्धरपि आरोग्यार्थं वर्णाश्रमधर्मोऽवश्यं स्वीकार्य इति मतमासीत् / प्रथमशताब्दीभवेन नागार्जुनेन संशोधितस्य सुश्रुतग्रन्थस्य षष्ठशताब्दीभवस्य वाग्भटप्रन्थस्य च पर्यालोचनादिदं सिद्ध्यति / नीतिसारदृष्ट्यापि 'संवासिभ्यो बलं सत्त्वमारोग्यं शीलमेव 'त्यत्रत्यवचनानुसारेण जनपदंप्रामादिसन्निवेशस्यारोग्यायत्तत्वात् तस्य च बलायत्तत्वात् बलस्य च शीलायत्तत्वात्तस्य च व्यसने चाभ्युदये चाविकारकरि यत्सत्त्वं तद्रूपत्वेन तस्य ईश्वरीयज्ञानानुसरणायत्तत्वमवगम्यते / विस्तरेण विवेचितोऽयमर्थः गीर्वाणवाग्वर्धिनीसभापश्चाशदव्युत्सवस्मारकनिबन्धेऽस्माभिरिति नेह तन्यते। विष्णुसहस्रनामस्तोत्रजपस्य ज्वरादिनिवर्तकत्वेन विधान चरकायुक्तमतं एव संगच्छते / न्यायशास्त्रं हि विषादिनाशकमन्त्रायुर्वेदप्रामाण्येन वेदप्रामाण्यं साधयत् मीमांसकान् जीवयतीति स्पष्टमस्मत्कृतान्यत्र निबन्धे / आयुर्वेदोपदर्शितमीश्वरमप्यादावुपन्यस्य प्रत्यभिज्ञाप्य च कुसुमाञ्जलिग्रन्थस्य महत्त्वमस्या भूमिकायां प्रकटीकर्तुमिच्छामः / जाठरो भगवानग्निः ईश्वरोऽन्नस्य पाचकः / सौम्याद्रसानाददानो विवेक्तं नैव शक्यते / इति उदग्नेिरीश्वरत्वेनोपासना आयुर्वेदीयानां सम्मता। इतिनिम्नलिखितडल्हणकृतसुश्रुतटीकादर्शनात् प्रतिपद्यते / एतदप्रतियन्तः केचन वर्तमाना वैद्याश्चरकादिप्रन्थेषु भगवानिति विशेषणमात्रदर्शनात् , वायुमेवेश्वरत्वेनोपास्यं मन्यन्ते / तत्तु सुश्रुतवचने ईश्वरशब्दस्य प्रत्यक्षं निर्देशदर्शनात् तन्मूलकेन डल्हणवचनेन विरुध्यत इति न प्रीणाति हृदयं सहृदयानामित्यन्यदेतत् / जाठराग्नेरीश्वरत्वेनोपासनं हि न केवलं वैद्यकमूलकमपि तु