________________ कुसुमाञ्जलिकारिकाः प्रथमः स्तबकः। सत्पक्षप्रसरः सतां परिमलप्रोद्वोधबद्धोत्सवो ... विम्लानो न विमर्दनेऽमृतरसप्रस्यन्दमाध्वीकभूः। ईशस्यैष निवेशितः पदयुगे भृङ्गायमाणं भ्रमच्चेतो मे रमयत्वविघ्नमनघो न्यायप्रसूनाञ्जलिः // 1 // स्वर्गापवर्गयोर्मार्गमामनन्ति मनीषिणः / यदुपास्तिमसावत्र परमात्मा निरूप्यते // 2 // न्यायचर्चेयमीशस्य - मननव्यपदेशभाक् / उपासनैव क्रियते श्रवणानन्तरागता // 3 // सापेक्षत्वादनादित्वाद्वैचित्र्याद्विश्ववृत्तितः / प्रत्यात्मनियमाद्भुक्तेरस्ति हेतुरलौकिकः // 4 // हेतुभूतिनिषेधो न स्वानुपाख्यविधिर्न च। , स्वभाववर्णना नैवमवधेर्नियतत्वतः // 5 // प्रवाहो नादिमानेष न विजात्येकशक्तिमान् / तत्त्वे यत्नवता भाव्यमन्वयव्यतिरेकयोः // 6 // एकस्य न क्रमः कापि वैचित्र्यञ्च समस्य न / शक्तिभेदो न चाभिन्नः स्वभावो दुरतिक्रमः // 7 // विफला विश्ववृत्तिों न दुःखैकफलापि वा / दृष्टलाभफला वापि विप्रलम्भोऽपि नेदृशः // 8 // चिरध्वस्तं फलायालं न कर्मातिशयं विना। सम्भोगो निर्विशेषाणां न भूतैः संस्कृतैरपि // 6 // भावो यथा तथाऽभावः कारणं कार्यवन्मतः / प्रतिबन्धो विसामग्री तद्धेतुः प्रतिबन्धकः // 10 // संस्कारः पुंस एवेष्टः प्रोक्षणाभ्युक्षणादिभिः / स्वगुणाः परमाणूनां विशेषाः पाकजादयः॥११ / / निमित्तभेदसंसर्गादुद्भवानुद्भवादयः देवताः सन्निधानेन प्रत्यभिज्ञानतोऽपि वा // 12 // जयेतरनिमित्तस्य वृत्तिलाभाय केवलम् / परोक्ष्यसमवेतस्य परीक्षाविधयो मताः // 13 // कर्तृधर्मा नियन्तारश्चेतिता च स एव नः। अन्यथाऽनपवर्गः स्यादसंसारोऽथ वा ध्रुवः // 14 // नान्यदृष्टं स्मरत्यन्यो नैकं भूतमपक्रमात् / वासनासंक्रमो नास्ति न च गत्यन्तरं स्थिरे // 15 // न वैजात्यं विना तत् स्यात् न तस्मिन्ननुमा भवेत् / विना तेन न तत्सिद्धिर्नाध्यक्षं निश्चयं विना // 16 // 73 न्या० कु०