________________ पंचमस्तवके ] ईश्वरसाधनम् / 575 वापरमेव चे' ति / 'यज्ञेन यज्ञमयजन्त देवा' इति / 'यज्ञा वै देवा' इति / 'यज्ञो वै -विष्णु रित्यादि / स्मर्यते च सर्वधर्मान् परित्यज्य मामेकं शरणं व्रज / इति / मदर्थ कर्म कौन्तेय ! मुक्तसङ्गः समाचर / इति / यशार्थात् कर्मणोऽन्यत्र लोकोऽयं कर्मवन्धनः / इति / यज्ञायाचरतः कर्म समग्रं प्रविलीयते / इत्यादि। अनुशिष्यते च साङ्ख्यप्रवचने ईश्वरप्रणिधानम् / तमिमंज्योतिष्टोमादिभिरिष्टः प्रासादादिना पूर्तेन शीतातपसहनादिना तपसा अहिंसादिभिर्यमैः शौचसन्तोषादिभिर्नियमः आसनप्राणायामादिना योगेन महर्षयोऽपि विविदिषन्ति / तस्मिन् शाते सर्वमिदं ज्ञातं भवतीत्येवं विज्ञाय श्रुत्वैकतानस्तत्परो भवेत् / यत्रेदं गीयते-- मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु। मामेधैष्यसि युषत्वैवमात्मानं मत्परायणः // भोक्तारं यशतपसां सर्वलोकमहेश्वरम् / सुहृदं सर्वभूतानां शात्वा मां शान्तिमृच्छति // 17 // इति / इत्येवं श्रुतिनीतिसंप्लवजलै योभिराक्षालिते येषां नास्पदमादधासि हृदये ते शैलसाराशयाः। किन्तु प्रस्तुतविप्रतीपविधयोऽप्युच्चैर्भवचिन्तकाः काले कारुणिक, त्वयैव कृपया ते भावनीया नराः॥ 18 // प्रकाशः। कर्मणो दर्शयता न ज्ञानकर्मणोस्तुल्यकक्षतया समुच्चय इत्यभिप्रेतम् / अनुशिष्यते, उपदिश्यते इत्यर्थः / ईश्वरोऽवश्यं ज्ञेयो महर्षीणामपि तज्ज्ञानान्वितत्वादित्याह तमिममिति / ईश्वरवेदनस्य फल माह तस्मिन्निति / मयि परमेश्वरे मनः संयुज्येत्यर्थः / योगजेश्वरसाक्षात्कारस्य फलमाह शान्तिमृच्छतीति / मोक्षं प्राप्नोतीत्यर्थः // 17 // यस्त्वेवं निर्दोषन्यायावगमितं कुतर्काभ्यासान्न प्रत्येति, तं प्रत्याह इत्येवमिति / इतिशब्दः स्वरूपार्थः / एवंशब्दश्व प्रकारार्थः। नीतिायः। शैलसारः पाषाणं, लौहं वा, तद्वदाशयो येषां ते तथा, युक्तिप्रतिसन्धानानाश्रयहृदया इत्यर्थः / प्रस्तुते ईश्वरे, विप्रतीपविधयः प्रतिकूलप्रकाराः, तादृशा अप्युच्चैरत्यर्थ काले कदाचित् भवचिन्तका इति योजना / भावनीया वासनीयाः शङ्काकलङ्कशून्याः कर्त्तव्या इत्यर्थः / प्रकाशिका। आसीदनुपमः कोऽपि महादेवः कुलाप्रणीः / टिप्पणी। सर्वधर्मानिति / अत्र धर्मपदमधर्मस्याप्युपलक्षणम् 'नाविरतो दुश्चरितानाशान्तो नासमाहित' इत्यादिश्रुतेः, 'त्यजधर्ममधर्म चे'त्यादिस्मृतेश्व, धर्माधर्मावनादृत्य मां परमात्मानमेकं शरणं प्राप्नुहि मदेकशरणो भवेत्यर्थः। अहं त्वा त्वां सर्वपापेभ्यः सर्वधर्माधर्मबन्धनरूपेभ्यः मोक्षयिष्यामि अतो माशुचः मा शोकं कार्षीरित्यर्थः / प्रासादादीति / भगवन्मन्दिरादीत्यर्थः। // 17-19 // इत्येष इत्यादि / इतिः समाप्तौ / एष उज्ज्वलश्रीः न्यायकुसुमाञ्जलिः दक्षिणवामको सज्जनदुर्जनौ यद् वासयेत् अनुरजयेत् , अन्योऽपि कुसुमाञ्जलिः दक्षिणवामनासापुटे अनुरजयति /