________________ पंचमस्तवके] ईश्वरसाधनम् / देरपि तत्रैवाधिकारात् / न च यो ब्राह्मणस्य विशेषः, स क्षत्रियादौ सम्भवति / न च क्षत्रियादेरन्यो वेद इत्यस्ति / न च कठाः काठकमेवाधीयते तदर्थमेवानुतिष्ठन्तीति नियमः, शाखासञ्चारस्यापि प्रायशो दर्शनात् / प्रागेवायं नियम आसीदिदानीमयं विप्लवते इति चेत् / विप्लव एव तर्हि सवंदा, कठाद्यवान्तरजातिविप्लवादित्यगतिरेवेयम् / तस्मादाद्यप्रवक्तृवचननिमित्त एवायं समाख्याविशेषसम्बन्ध इत्येव साध्विति // स एवं भगवान् श्रुतोऽनुमितश्च, कैश्चित् साक्षादपि दृश्यते प्रमेयत्वादेर्घटवत् // ननु तत्सामग्रीरहितः कथं द्रष्टव्यः। सा हि बहिरिन्द्रियगर्भा मनोगर्भा वा तत्र न सम्भवति / चक्षुरादेनियतविषयत्वात् / मनसो बहिरस्वातन्त्र्यात् / तदुक्तं हेत्व. प्रकाशः। कठत्वादिक्षत्रिये सम्भवतीत्याहन चेति। ननु क्षत्रियाद्यवीयमानाऽपि शाखा कठादिपदवाच्येत्यत आह न व कठा इति ।प्रागेवायमिति। पूर्व कठेः स्वशाखैवाधीता, अधुना शाखान्तराध्ययनरूपो विप्लव इत्यर्थः / विप्लव एवेति / कठत्वादिशाखाव्याप्यजातिविप्लवः कठादिसमाख्याव्यवस्थाव्यतिरेकश्वेत्यर्थः। तस्मादिति / कठादिशरीरमधिष्ठाय सर्गादावीश्वरेण या शाखा कृता, सा तत्समाख्येति परिशेष इत्यर्थः / अत्र अनित्यज्ञानवद्रक्तृकवाक्यावाचकानि श्रौतकठपदादीनि किञ्चित्प्रवक्तृकवाक्यवाचकानि वाक्यवाचकपदत्वात् मन्वादिसंहितापदवदिति मानमभिप्रेतम् / इयता प्रबन्धेन मननरूपां प्रतिज्ञातामुपासनां निर्वाय न तावन्मात्रान्मोक्षोऽनुमितिरूपविशेषदर्शनस्य प्रत्यक्षभ्रमानुच्छेदकत्वात् , अपि तु प्रत्यक्षरूपं तत्तद्धेतुरिति दर्शयितुमाह - . स एवमिति / अत्र प्रत्यक्षसामग्रीमुपाधिमाह नन्विति / सामग्य अतीन्द्रियतया योग्यानुपलम्भेन निषेधोऽपास्तः। न च तस्याः कार्यव्यङ्गयतया तदभावादेवाभाव इति वाच्यम् / कार्यस्यापि पुरुषान्तरप्रत्यक्षज्ञानत्वेन योग्यव्यतिरेकत्वात् / साधनव्यापकतया स नोपाधिरित्याह प्रकाशिका। स्तदवस्थ एवेति भावः / पूर्व कठेरिति / तथा च पूर्वकालीनमेव कठत्वादिजातिमद्ब्राह्मणाध्य. यनं शाखायाः कठादिसमाख्यानियामकमस्तीत्यर्थः। कठत्वादिशाखाव्याप्येति / पूर्वशब्दस्याननुगतत्वेन सर्गायत्वमेव तदर्थः, स च न भवताप्युपेयत इत्यनियमस्तदवस्थ एवेति भावः / अनित्यज्ञानवदिति / तन्मतेऽवक्तृकतया अस्य ज्ञानवक्तृकतया च पक्षतावच्छेदकसिद्धिः / न चास्मदायुच्चरितवेदवाचकतया कठादिसमाख्यायाः पक्षतावच्छेदकासिद्धिरिति वाच्यम् / अनित्यज्ञानवत्वक्रियामात्रावाचकत्वस्य विशेषणत्वादिति भावः / किश्चित्प्रवक्तृकेति / स्वातन्त्र्यम् प्रशब्दार्थ इति नाध्यापकेनार्थान्तरमिति ध्येयम् // 17-20 // मकरन्दः। व्यवस्थाव्यतिरेक इति / नियमगर्भस्योक्तनियामकस्यासिद्धेरिति भावः / / अनित्यज्ञानवदिति / तन्मते अपौरुषेयत्वादस्मन्मते नित्यज्ञानवद्वक्तृकत्वादुभयसिद्धविशेषणमिति वोध्यम् / शेषं सुगमम् // 17-20 // इति महामहोपाध्यायदेवदत्तात्मजश्रीरुचिदत्तोपाध्गायविरचितः मकरन्दः समाप्तः॥ vocom