________________ भूमिका अथायं प्रकाश्यते मुद्रयित्वा वरदराजकृतया बोधिन्या, व्याख्यात्रयसमलङ्कृतेन वर्धमानोपाध्यायविरचितेन प्रकाशेन च समन्वितो न्यायाचार्यपदाङ्कितेन श्रीमदुदयनाचार्येण निबद्धो न्यायकुसुमाञ्जलिरित्यभिधया प्रथितो महानिबन्धः / तत्र च लौकिकप्रत्यक्षाविषयगुणत्वसाक्षाद्व्याप्यजात्यधिकरणत्वमात्मनि वर्तते न वेति संशये, भावकोट्या धर्मत्वाधर्मत्वारूपतादृशजात्यधिकरणत्वमात्मनि नैयायिकमतेन वर्तते, अभावकोट्या च चार्वाकमतेन गुरुत्वादिरूपतादृशजात्यधिकरणत्वमनात्मगुण इति प्रथमविप्रतिपत्तिनिरसनार्थः प्रथमस्तबक आचार्यप्रवरेण जुगुम्फि / द्वितीये 'च अदृष्टादिसद्भावेऽपि वेदानामाप्तोक्तत्वेन प्रामाण्यावधारणादाप्तो वेदकर्ता कश्चिदीश्वर इति न संभवति, अन्यथापि तेषां नित्यनिर्दुष्टतया स्वतःप्रामाण्यावधारणात्तद्वोधितस्वर्गादिसाधनयागादौ प्रवृत्तिसंभवादित्याशयवान्मीमांसको द्वितीयः प्रतिवादी प्रत्यवतिष्ठते तन्मतखग्डनेनेश्वरसिद्धिः प्रसाधिता / तृतीये-भवतु वेदानां पौरुषेयत्वादाप्ोक्तत्वं तदभावावेदकप्रमाणसद्भावात् , क्षित्यादेः कर्तृजन्यत्वे च प्रत्यक्षवाधान्नेश्वरः कथमपि सिध्येदिति सौगतमतनिराकरणमकारि। सन्नपीश्वरो न प्रमाणम् , यतः प्रमाणपदं हि भावकरणकर्तृव्युत्पत्त्या प्रमातत्साधनतदाश्रयेषु प्रवर्तते, तथाचेश्वरः कर्ता स्यात्प्रमावस्तत्करणेन्द्रियादिमांस्तत्समवायिकारणं च स्यान्न चायं तयेति विपर्ययानुमानादिति वादी दिगम्बरश्चतुर्थश्चतुर्थे स्तबके दूषितः श्रीमदाचार्यपादैः। पंचमे च स्तंबके नैयायिकैः क्षितिवेदादेः कर्तृजन्यत्वेनेतरबाधादीश्वरकर्तृकत्वं साधनीयम्, स च हेतुः शरीरजन्यत्वाद्युपाधिप्रस्ततया न साधक संभवतीति निरीश्वरसांख्यमतविप्रतिपत्तिखण्डनपुरस्सरं साधकयुक्तिगणैरीश्वरं साधयित्वा तन्मूलकमेव श्रुतिस्मृतिपुराणेतिहासादीनामद्ययावत्प्रामाण्यमुररीक्रियते वैदिकधर्मप्रामाण्यवादिभिनिवैरतः- प्रधानतयेश्वरसिद्धिरेवास्य ग्रंथस्य निर्मिती प्राचार्यचरणानां, प्रयोजनम् / एवं चेश्वरो वर्तते न वेति संशयबीजविप्रतिपत्तिनिरसनमुखेनेश्वरसिद्धर्जागरूकत्वात्तदाज्ञापत्र(१)रूपश्रुतिस्मृतीतिहासपुराणाद्यनुसृत्या तद्विहिताचरणसंपन्नानां हृदि सुविमलां पुरुषार्थचतुष्टयलब्धिहेतुकां शेमुषीमुक्ताज्ञापत्रानास्थया तन्निषिद्धाचारवतां च स्वान्ते विपरीतां बुद्धिं प्रयच्छन्नीश्वरो जीवकर्मानुरूपाणि सुकृतदुष्कृतफलानि भोजयन्कर्मसापेक्षतया न वैषम्यनैऽग्यदोषदूषितो भवति, अत एवोक्तं भगवता व्यासेन वेदान्तब्रह्मसूत्रेषु 'वषम्यनघृण्ये न सापेक्षत्वात्तथाहि दर्शयति 2-1-34 इति / अस्मिश्च सूत्रे तथाहि दर्शयति इतिवाक्यैकदेशेनैतद्विषये 'पुण्येन पुण्यं लोकं नयति पापेन पापम्' (प्रश्नो० 3 / 7) 'पुण्यो वै पुण्येन कर्मणा भवति पापः पापेन' (बृह० 3 / 2 / 13) 'कर्मवैचित्र्यात्सृष्टिवैचित्र्यम्' ( 6 / 41) इत्यादिना कर्मनिमित्तं रचनावैविध्यमतो न परमात्मनि कश्चिदोष इति श्रुतिप्रामाण्यं स्फुटीचकार सूत्रकारः। कर्मानुगुणमतिप्रेरकोऽपि स एवेत्यत्रापि / (1) अतएवोक्तं वाधूलस्मृतौ-श्रुतिस्मृती ममैवाशे यस्तामुल्लंघ्य वर्तते / आज्ञाच्छेदी मम द्रोही मद्भक्तोऽपि न वैष्णवः // इति /