________________ सुभाषितस्करत्नमाल 10 तपःसूक्तानि 'न नीचैजन्म स्यात् प्रभवति न रोगव्यतिकरो, न वाप्यज्ञानत्वं विलसति न दारिद्यललितम् / पराभूतिर्न स्यात् किमपि न दुरापं किल यतस्तदेवेष्टप्राप्तौ कुरुत निजशक्त्याऽपि सुतपः // 1 // पृथ्वीनाथसुता भुजिष्यचरिता जञ्जीरिता मुण्डिता, क्षुत्क्षामा रुदती विधाय पदयोरन्तर्गतां देहलीम् / कुल्माषान् प्रहरद्वयव्यपगते मे सूर्पकोणस्थितान् , दद्यात् पारणकं तदा भगवतः सोऽयं महाभिग्रहः // 2 // प्रायो नाम तषः प्रोक्तं, चित्तं निश्चलमुच्यते। तपोनिश्चलसंयुक्तं, प्रायश्चित्तमिति स्मृतम् // 3 // तपस्तीवघरट्टोऽयं, क्षमामर्कटीकान्वितः। . धृतिहस्तो मनः किल:, कर्मधान्यानि चूर्णयेत् // 4 // सुमतिस्त्वेकभक्तेन, चतुर्थाद्वसुपूज्यभूः / अष्टमेन पार्श्व-मल्ली, शेषाः षष्ठात्प्रवव्रजुः // 5 // अष्टमात्केवलं प्रापुः पार्श्वनेमादिमल्लयः। वासुपूज्यश्चतुर्थेन, शेषाः षष्ठेन तीर्थपाः // 6 // उपवासः शिवं षड्भि-रगान्नाभिभवो जिनः / द्वाभ्यां वीरोऽपरे मास-क्षपणेन जिनाधिपाः॥७॥