________________ सुभाषितसूक्तरत्नमाला कन्यादान, पाप भवभ्रमणबीजेन, दाम्पत्येन नियोजिता।. . योजयित्रे परं कन्या, पाप्मानमुपयच्छति // 106 // ., अढारभार वनस्पतिनी समजण चत्वारो पुष्पका भारा, अष्टौ च फलपुष्पिका / स्युवल्लीनां च षड्भाराः, शेषनागेन भाषितम् / / 107 // कटुकस्य भाराश्चत्वारि, द्वे भारे तिक्तमुच्यते / त्रीणि भारं भवेन्मिष्ठं, मधुरं भारकं त्रयम् // 108 // क्षारं च भारमेकं तु; कषायं भारकद्वयम् / सविषं भारमेकं तु, द्वौ भारौ निर्विषो तथा // 109 // षड्भाराः कण्टका ज्ञेयाः, षड्भारा: सुगन्धकाः। पड़ भाराश्च निर्गन्धा, भारानष्टादश विदुः // 110 // समाकुञ्चितवामजानुभूमिविन्यस्तदक्षिण जानललाटपट्टिघटितकरकुड्मल: पठती ति जीवाभिगमादिष्यभिधीयते // तथापर्यङ्कासनस्थः शिरोधिनिवेशितकरकोरकः, तं पठन्तीत्यस्यापि ज्ञाताधर्मकथासु दर्शनात्तथा हरिभद्राचार्येणापि चैत्यवन्दनवृत्तौ क्षितिनिहितजानुकरतलो भुवनगुरी विनिवेशितनयनमानसः प्रणिपातदण्डकं पठति इत्यादि सर्वाणि प्रमागग्रन्थप्रणीतानि विनयसमर्थकानि अविरुद्धानि ज्ञेयानि //