________________ 438 सुभाषितसूक्तरत्नमाला 150 गुरुस्तुतिस्वोपज्ञसूक्तानि तपस्विनं महाशान्तं, गीतार्थ स्थविरं गुरुम् / सर्वसरिशिरोरत्न, सिद्धिसूरि भजे सदा // 1 // परभावात्सदा मुक्ता, रताः स्वगुणरक्षणे / कर्माष्टनाशने दक्षा, विनयाख्यमुनीश्वराः // 2 // भविनां भद्रदातारं, स्वान्यभद्रसदोद्यतम् / विजयाद्य भद्रसूरिं, प्रणमामि मुनीश्वरम् // 3 // पंन्यासप्रवरो जीयात्सुन्दरविजयो गणी / यस्य रत्नत्रयाभ्यासे, सततं प्रचुरोद्यमः // 4 // 151 मुनिनिदाफलदर्शकसूक्तानि निवृत्ताः सर्वपापेभ्यः, प्रवृत्ताः पुण्यकर्मसु / अमी हि जगतः पूज्या, ज्यायांसो गुणसम्पदा // 1 // एषां संयमिनां निन्दा, मन्दान्धा ये वितन्वते / खनयः खलु दुःखानां, ते भवन्ति भवे भवे // 2 // परस्यापि भवेनिंदा, नानानर्थपथाकरी / किं पुनः त्यक्तसङ्गानां, मुक्तिमार्गकगामिनाम् // 3 // ततो निन्दा मुनीद्राणां, भ्रात तिः परं कृथाः / अनात्मनीनमात्मज्ञः, कर्म प्रक्रमते हि कः॥४॥