________________ 430 सुभाषितसूकरत्नमाला वाहनौषधिपाथेयः, सहायवृषभादिकम् / यद्यस्य नास्ति तत्तस्मै, सर्व देयं मया मुदा // 13 // देशलसंघपतिनी शत्रुजय तथा गिरनारनी यात्रा तीर्थे स्थित्वा विंशतिं वासराणि, ___ साधुः श्रीमान् देशलः सूनुयुक्तः / नत्वा सर्वाण्यर्हतामत्र बिम्बा न्याशु प्रातः पर्वतादुत्ततार // 14 // दिनानि दश तीर्थेऽस्मिन् , स्थित्वा देशलसङ्घपः / श्रीनेमिनमनुज्ञाप्य, गिरिनारादवातरत् // 15 // _श्री शत्रुजयनां 21 नामो सिद्धक्षेत्रं तीर्थराजो, मरुदेवो भगीरथः। विमलाद्रिर्बाहुबली, सहस्रकमलस्तथा // 16 // तालध्वजः कदम्बश्व, शतपत्रौ नगाधिराटू / अष्टोत्तरः शतक्टः, सहस्रपत्र इत्यपि // 17 // ढङ्को लोहित्यकपर्दि-निवास: सिद्धिपर्वतः। 68 16 शत्रुञ्जयस्तथा मुक्ति-निलयः सिद्धशेखरः // 18 // पुण्डरीकश्चेति नाम-धेयानामेकविंशतिः। गीयते तस्य तीर्थस्य, कृता सुरनरषिभिः // 19 // 21