________________ 330 सुभाषितसूक्तरत्नमाला सत्पात्रं महती श्रद्धा, काले देयं यथोचितम् / धर्मसाधनसामग्री, बहुपुण्यैरवाप्यते // 9 // कीर्तिः प्रतिष्ठा जगतोऽप्यभीष्टता, कलङ्कलुप्तिद्विषतोऽपि मित्रता, नृपादिमान्यत्वमलध्यता गिरा मिहापि दानस्य फलानि देहिनाम् // 10 // सौभाग्यमारोग्यमखण्डिताज्ञा, सुदीर्धजीवित्वमभङ्गमोगिता। ऐश्वर्यलीलाः सुरलोकसम्पदः, फलानि दानस्य परत्र जन्मिनाम् धनाङ्गपरिवाराचं, सर्व वस्तु विनश्यति / . दानेन जनिता लोके, कीर्तिरेकैव निश्चला // 12 // न्यायोपात्तं समुचितगुणं कल्पनीयं यतीनां, वस्त्रं पात्रं परममशनं भेषजं रोगहारि / दत्तं भक्त्या विपुलमनसा श्रावकेण प्रकामं, धत्ते मुक्ति सुरनरभवे का कथा यत्र लभ्ये // 13 // व्याजे स्याद् द्विगुणं वित्तं, व्यवसाये चतुर्गुणम् / क्षेत्रे शतगुणं प्रोक्तं, पात्रेऽनन्तगुणं पुनः // 14 // जले तैलं खले गुह्यं, पात्रे दानं मनागपि / प्राज्ञे शास्त्रं सतां प्रीति-विस्तारं यात्यनेकधा 15 / / __अन्न दाननी महत्ता तुरगशतसहस्रं गोकुलं भूमिदानं, कनकरजतपूर्णा मेदिनी सागरान्ता /