________________ 278 सुभाषितसूक्तरत्नमाला अकर्णस्य कर्णे कथं गीतनादाः, अपादस्य पादे कथं मे प्रणामः // 2 // प्रशमरसनिमग्नं दृष्टियुग्मं प्रसन्नं, वदनकमलमङ्कः कामिनीसंगशून्यः / करयुगमपि यत्ते शस्त्रसम्बन्धवन्ध्यं, तदसि जगति देवो वीतरागस्त्वमेव // 3 // नाऽहं स्वर्गफलोपभोगरसिको, नाभ्यर्थितस्त्वं मया, संतुष्टस्तृणभक्षणेन सततं, साधो ! न युक्तं तव / स्वर्गे यान्ति यदि त्वया विनिहता यज्ञे ध्रुवं प्राणिनो, यज्ञं किं न करोषि मातृपितृभिः, पुत्रैस्तथा बान्धवैः // 4 // एषा तडागमिषतो बत दानशाला, ' मत्स्यादयो रसवती प्रगुणा सदैव / पात्राणि यत्र बकसारसचक्रवाकाः, पुण्यं कियद्भवति तत्र वयं न विद्मः // 5 // पापपंकमा लेपायेलने जैनधर्म रुचतो नथी हिंसा त्याज्या नरकपदवी सत्यमाभाषणीयं, स्तेयं हेयं विषयविरतिः सर्वसङ्गानिवृत्तिः। जैनो धर्मों यदि न रुचितः पापपङ्कावृतेभ्यः, सपिर्दुष्टं किमिदमियता यत्प्रमेयी न भुङ्कते // 6 // 1 "कपिवृषणास्य ! वयस्य सुखं ते / कुत्र भवेद्भवदीयनिवासो यत्र भवेद्भगवदीयनिवासः" इति पदत्रयं पाठान्तरम्।