________________ 130 सुभाषितसूक्तरत्नमाला मानी ज्ञानविवेकबुद्धिकलितो यो मर्त्यलोकागतो, यस्तु स्वर्गसमागतः स सुभगः प्राज्ञः कविः श्रीयुतः // 13 // 38 एकत्वभावनासूक्तानि पान्थानामिव वर्मनि क्षितिरुहां नद्यामिव भ्रश्यतां, मेघानामिव पुष्करे जलनिधौ सांयात्रिकाणामिव / संयोगः पितृमातृवन्धुतनयभ्रातृप्रियाणां यदा, सिद्धो दूरवियोग एव विदुषां शोकोदयः कस्तदा // 1 // समाहतं यस्य करैर्विसर्पिभिस्तमो दिगन्तेष्वपि नावतिष्टते। स एव सूर्यस्तमसाभिभूयते, स्पृशन्ति कङ्कालवशेन नापदः // 2 // 'मित्रपुत्रकलत्रादि-कृते कर्म करोत्ययम् / यत्तस्य फलमेकाकी, भुङ्क्ते श्वभ्रादिषु स्वयम् // 3 // किं कस्याऽपि कृते किञ्चिद्, भुवने वस्तु विद्यते / स्वेनैवोत्पद्यते काले, स्वयमेव विपद्यते // 4 // तदेवं सति को मोहो, देहिनां यदिदं मम / गते च तत्र कः खेदो, यदिदं मे गतं मृतम् // 5 // इक्को कम्माई समं, जणेइ मुंजइ फलं पि तस्सिको। इक्कस्स जम्ममरणे, परभवगमणं च इक्कस्स // 6 //