________________ आत्मनिन्दासूक्तानि एकेनाऽपि महाव्रतेन यतिनः खण्डेन भग्नेन वा, दुर्गत्यां पततो न सोऽपि भगवानीष्टे स्वयं रक्षितुम् / हत्वा तान्यखिलानि दुष्टमनसो वर्तामहे ये वयं, तेषां दण्डपदं भविष्यति कियज्जानाति तत्केवली // 3 // कटयां चोलपटं तनौ सितपटं कृत्वा शिरोलुश्चनं, स्कन्धे कम्बलिकां रजोहरणकं निक्षिप्य कक्षान्तरे / वक्त्रे वस्त्रमथो विधाय ददतः श्रीधर्मलाभाशिषं, वेषाडम्बरिणः स्वजीवनकृते विनो गतिं नात्मनः // 4 // भिक्षापुस्तकवस्त्रपात्रवसतिप्रावारलुब्धा यथा, नित्यं मुग्धजनप्रतारणकृते कष्टेन खिद्यामहे / आत्मारामतया तथा क्षणमपि प्रोज्झ्य प्रमादद्विषं, स्वार्थाय प्रयतामहे यदि तदा सर्वार्थसिद्धिर्भवेत् // 5 // पाखण्डानि सहस्रशो जगृहिरे ग्रन्था भृशं पेठिरे, लोभाज्ञानवशात् तपांसि बहुधा मूढैश्चिरं तेपिरे / क्वाऽपि क्वाऽपि कथश्चनाऽपि गुरुभिभूत्वा मदो भेजिरे, कर्मक्लेशविनाशसंभवसुखान्यद्यापि नो लेभिरे // 6 // किं भावी नारकोऽहं किमुत बहुभवी दूरभव्यो न भव्यः, किं वाऽहं कृष्णपक्षी किमचरमगुणस्थानकं कर्मदोषात् /