SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ अभिधर्मसमुच्चयभाष्यम् भववैमुख्येन तत्प्रतिपक्षत्वात् / (vi) प्रास्त्रवान्वयतोऽर्हतां स्कन्धानां पौर्वजानिमकक्लेशसंभूतत्वात् // पञ्चस्कन्धाः सास्रवाः / पञ्चदश धातयोऽन्त्यांस्त्रीन् हित्वा / दशायतनान्यन्त्ये द्वे हित्वा / त्रयाणां धातूनां द्वयोश्चायतन [T. 23 A] योः प्रदेशः सपरिवारमार्यमार्गम संस्कृतं च हित्वा / / 5 26 A. शस्त्रादानादिरणहेतवो रागादयो रणाः / यावन्ति सानवाणि तावन्ति सरणाणीत्येवमादि तदानुबंध्यार्थेन वेदितव्यम् / / __. 6 27A. [Ch. 707A] 5-पुनर्भवाध्यवसानहेतवो रागादय आमिषम् / कथं द्वेषस्य-5 पुनर्भवाध्यवसानहेतुत्वम्। व्यावदानि [Ms. 24 A]-कधर्मद्वेषण पुनर्भवाध्यवसानात् // $ 28A. कामगुणाध्यवसानहेतवो रागादयो' ग्रेधः। कीदृशेन द्वेषण तदध्यवसानम् / नैष्क्रम्यद्वेषेण / / 629C. [Ch. 707 B, AS. P. 19] कामकारेण संमुखीभावो विमुखीभावश्च नासंस्कृतस्य संभवति नित्यत्वात् / नैवसंस्कृत'नासंस्कृतस्य द्वया व्यतिरेकाद्यदुक्तम्-द्वयर्यातदं संस्कृतं चासंस्कृतं चेति / तत्कथं द्वयमेवमेव भवतीति / कामकारसंमुखी11भावार्थेन संस्कृतमेवेति वक्तव्यम् / कर्मक्लेशानभिसंस्कृततार्थनासंस्कृतमेवेति / न द्वयाद्वयतिरिच्यते / / / $ 30A. तत्प्रतिभासमिति वैधातुकपर्यापन्नाकारम्, तथतादिप्रतिभासस्यैकान्तेनानुचितत्वेन लोकोत्तरत्वात्। स्कन्धानामेकदेशं सम्यग्ज्ञानसंगृहीतं लोकोत्तरप्रतिभासांश्च पृष्ठलव्धान् स्थापयित्वा। तच्चासंस्कृतं च स्थापयित्वा त्रयाणां धातूनां [T. 23 B] द्वयोश्चायतनयोः प्रदेशो द्रष्टव्यः / / 1. T. omits पञ्च स्कन्धाः सास्रवाः / 2. Ms. 3T for #T. 3. Ms. गः. 4. Ms. अ. 5. ...-5 "पुनर्भवा ... द्वेषस्य" is dropped in T. 6. T. and Ch. add पञ्च. T. omits रागादयो. 8. Ms. स. 9. Ms. ता. 10. Ms. य. 11. T. and Ch. add विमुखी.
SR No.004378
Book TitleAbhi Dharm Samucchaya Bhasyam
Original Sutra AuthorN/A
AuthorNathmal Tatia
PublisherK P Jayswal Research Institute
Publication Year1976
Total Pages188
LanguageHindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy