________________ 154 अभिधर्मसमुच्चयभाष्यम् (g) अस्थिरं यत्प्रतिज्ञायावज्ञातमवज्ञाय प्रतिज्ञातमतित्वरमाणया वाचा हि / तूर्णपरामृष्ट: / ' (h) [अ]प्रदीप्तवचनं यच्छन्दलक्षणसमतिकान्तमप्रत्यनुभाष्योत्तरविहितम्, संस्कृतेनारभ्य प्राकृतेनावसितम्, प्राकृतेनारभ्य संस्कृतेन पर्यवसितं च / (i) अंप्रबद्धं यदन्तराधिष्ठितविच्छिन्नं वाक्प्रतिभानमिति / / $ 203F. वाद निःसरणं येन वादानिःसरति, अकरणेन वा गुणदोषौ विचार्य वादस्य निग्रहस्थानानासादनात्, करणेन वा निर्वहनादिति / तत्र प्रतिवादिन्यभाजनताऽकुशलात्स्थानाद्व्युत्थाप्य कुशले स्थाने प्रतिष्ठापयितुमशक्यता। पर्षदो वैगुण्यमसभ्याभिनिविष्टपक्षपातितादिना। प्रात्मनोऽकौशल्यं वादे यावद्वादालकारे[Ch. 772C]ऽव्यु[Ms. 146B]त्पत्तिः विपर्ययात्प्रतिवादिभाजनतादीनि वेदितव्यानि // 8 203G. [As. p. 106] वादे बहुकरा धर्मा ये वादेऽवश्यमुपयुज्यन्ते / तद्यथा स्वपरसमयज्ञता वादे बहुकरो धर्मो येन सर्वत्र कथा[T. 141A]वस्तुनि वादं करोति / शेषं सुगमम् // ___ कुशलपक्षप्रयुक्तेनेत्युक्त्वा प्रतिपत्तिसारकेणेति वचनमाशयविशुद्धिज्ञापनार्थ न लाभसत्कारादिनिमित्तं श्रुतादिकुशलपक्षे प्रयुक्तेनेत्यर्थः / [Ch. 773A] सत्त्वसंग्राहकेणेति श्रावकादिविशेषणार्थं परहितप्रतिपत्तिप्रधानेनेत्यर्थः। एवं च स्वहितपरहितप्रतिपन्नः क्षिप्रमनुतरां सम्यक्संबोधिमभिसंबुध्यत इत्ययमेषां पदानामनुसंविर्वेदितव्यः / अविगृह्यापि तावद्वादे क्रियमाणे प्रकृतिगम्भीरत्वान्महायानधर्मस्य दुर्लभाऽऽज्ञा प्रागेव विगृह्य / यैश्च सह विगृह्य वादः क्रियते तेऽपि 6-प्रतिपत्तारो नाज्ञाभिप्रायाः प्रतिब्र वन्ति किंतर्भुपालम्भाभिप्रायाः। येष्वपि प्राश्निकेषु स वादः क्रियते ते वाऽसभ्या अव्युत्पन्ना वा भवन्त्यभिनिविष्टा वा / सर्वोऽपि च वादः प्रायेण षड्भिर्दोषयुक्तो भवति / तथाहि (i) वादं कुर्वाणः कदाचिदतिरभसेनासत्पक्षमपि प[Ms. 147A]रिगृह्याभिनिवेशेन (ii) छलजातिनिग्रहस्थानान्यपि प्रयुक्ते / (iii) वचनपर्यवसानमनिगमय्याप्यकालेन वक्तु - मारभते / (iv) सम्यगप्युक्तां प्रतिवादिनः कथामपपातयति पंसयतीत्यर्थः / (v) परुषमपि ब्रु वते, येन प्रतिवाद्यादयः चित्तं प्रदूषयन्ति / (vi) स्वयं च तेषु चित्तं प्रदूषयतीत्येभिः षड्भिर्दोष [T. 141B]र्युक्तो भवति / / 1. T. & Ch. "not understandable due to changing quickly." 2. T. & Ch. "answer". 3. Ms. दः. 4. Ms. adds अन्तरः. 5....5 "प्रति...अव्यु" is in the top margin of Ms. 6. Ms. स्तु but T. support क्तु.