________________ 152 अभिधर्मसमुच्चयभाष्यम् (iie) निगमनं निष्ठागमनसमाख्यानम् / यस्मादेवं [Ms. 144A] युक्त्या सूपपन्नं तस्मादित्थमेवेदमित्येतन्निगमनं वेदितव्यम् / / एषां प्रतिज्ञादीनामिदमुदाहरणमात्रं प्रदर्श्यते / तद्यथा नैरात्म्यवादिनस्तद्रूपेऽधिकरणे सप्रतिवादिके [T. 139A] नास्त्यात्मेति वचनं प्रतिज्ञा // स्कन्धविज्ञप्ती ब्रतुर्विधदोषोपलंभादिति हेतुः / स ह्यात्मा प्रज्ञप्यमानः स्कन्धलक्षणो वा प्रज्ञप्येत, स्कन्धेषु वा, अन्यत्र वा स्कन्धेभ्यः, अस्कन्धको वा / तद्यदि स्कन्धलक्षणस्तेनास्वतन्त्राः स्कन्धाः प्रतीत्यसमुत्पन्ना उदयव्ययधर्माणस्तल्लक्षण आत्मा नोपपद्यत इति दोषः / अथ स्कन्धेषु तेनानित्यस्कन्धाश्रित आत्माऽनित्यः प्राप्नोतीति दोषः / अथान्यत्र स्कन्धेभ्यस्तेन निर्देहक आत्मा निष्प्रयोजन इति दोषः / अथास्कन्धकस्तेन प्रकृत्यैव मुक्तस्य केवलिनो मोक्षार्थ प्रयत्नवैयर्थ्यमिति दोषः / / / वर्तमानेऽतीतप्रज्ञप्तिवदिति दृष्टान्तः / तद्धयतीतं विद्यमानलक्षणत्वेन प्रज्ञप्यमानं वर्तमानलक्षणं वा प्रज्ञप्येत, वर्तमाने वा अन्यत्र वा वर्तमा[Ms. 144B]नात् वर्तमाननिरपेक्षं वा। तद्यदि वर्तमानलक्षणं तेन वर्तमानमुत्पन्नानिरुद्धतल्लक्षणमतीतमुत्पन्ना'निरुद्धात्मकमिति दोषः / अथ वर्तमाने तेनानिरुद्ध निरुद्धात्मक स्य संबन्धो न युज्यत इति दोषः। अथान्यत्र वर्तमानात्तेन वर्तमानं हित्वा न किंचित्तद्वस्तूपलभ्यते यत्र तत्प्रज्ञप्यत इति दोषः। अथ वर्तमाननिरपेक्षं तेनासंस्कृतमप्यतीतं प्राप्नोतीति दोषः / [T. 139B] तच्चातीतं भ्रष्टलक्षणत्वाल्लक्षणतो नास्तीति सिद्धम् / अतोऽनेन वर्तमानप्रज्ञप्तौ चतुर्दोषेण सिद्धेना. सिद्ध [Ch. 172A] आत्मा नास्तीति स्कन्धप्रज्ञप्तौ चतुर्विधदोषोपलंभात् प्रसाध्यते नास्तीति // एवमात्मविपर्यासं प्रतिषिध्यतयैव युक्तया नित्यादयोऽपि न सन्तीत्यतिदेश उपनयः॥ ____ यस्मादेतदेवं तस्मादनित्याः पञ्च स्कन्धाः यावदनात्मान इति निगमनमिति / / (iif) प्रत्यक्षं स्वसत्प्रकाशाभ्रान्तोऽर्थः / तत्र स्वोऽर्थ[Ms. 145A]स्तद्यथा चक्षुषो रूपम् / सद्ग्रहणं घटादिद्रव्याणां लोके प्रत्यक्षसंमतानां प्रत्यक्षत्वव्युदासाथ प्रज्ञप्तिमात्रत्वात्। प्रकाशग्रहणमावृतत्वादिभिरनुपलब्धिकारणैरनाभासगत - विषयव्युदासार्थम् / अभ्रान्तग्रहणमलातचक्रमायामरीचिका दिव्युदासार्थमिति / / 1. Ch. अतीतमसिद्धम्. 2. Ms. °मनुत्पन्नं° for °मुत्पन्ना. 3. Ms. adds. या.