________________ [IV] (प्राप्तिविनिश्चयो नाम चतुर्थः समुच्चयः) $ 139. [Ch. 753A]' प्राप्तिविनिश्चयोऽधिगन्तपुद्गलव्यवस्थानतोऽधिगमव्यवस्थानतश्च द्रष्टव्यः / / $ 140. असत्यपि पुद्गलद्रव्ये पुद्गलव्यवस्थानं चतुभिः कारणैः / तद्यथा (i) सुखसंव्यवहारार्थम्, रूपा[T. 176A]दीनां बहूनां बहुधाभिन्नलक्षषासंज्ञानामेकया [Ms. 109B] सामुदायिक्या संत्त्वप्रज्ञप्त्याऽकृच्छेण 'एहि माहि' इत्येकमादि संव्यवहरणात् / (ii) लोकानुवृत्त्यर्थम्, न हि लोके धर्ममात्रसंज्ञाभिः सर्वः संव्यवहारो निरूढः किंतहि प्रायेण सत्त्वसंज्ञया / तस्माल्लोकेन सह संव्यवहरद्भिरायँरवश्यं सोऽनुवर्तितव्य इति / (iii) अनुत्रासार्थम्, प्रतीत्यसमुत्पादधर्मतायामकोविदाः सहसादितः सर्वथा सत्त्वाभावं श्रुत्वोत्त्रस्येयुरिति / (iv) आत्मनः परेषां च दोषवत्त्वगुणवत्त्वोद्भावनार्थं च, इतरथा हि सत्त्वज्ञप्तिमन्तरेण संक्लेशव्यवदानलक्षणमात्रदेशनायां सत्याममुष्मिन् संतानेऽमी दोषाः प्रहोणा अमी वा गुणा उत्पन्ना इति न शक्यते विज्ञातुमिति / / 6141. [As. p. 86] पुद्गलव्यवस्थानं पुनश्चरितादिप्रभेदेन सप्तविधम् [Ch. 753B] | 6142. तत्र (i-v) रागादि चरितस्तीवायतरागः, होनेऽपि रञ्जनीये वस्तुन्यधिमात्ररागोत्पादादुत्पन्नस्य च चिरमनुबन्धात् / इत्येवं यावद्वितर्कचरितो यथास्वं वस्तुनि योजयितव्यः / (vi) समभाग[As. p. 87]चरितः प्रकृति[स्थ]: संक्लेश: औत्कटयमान्द्यविजितसमाव[T. 106Bjस्थे क्लेश इत्यर्थः, [Ms. 110A] यथावस्त्वनुरूपं क्लेशसमुदाचारात् / (vii) मन्दरजस्क: प्रकृतिस्थः तनुतरक्लेशः, प्रकृतिस्थेभ्य उक्तलक्षणेभ्यस्तनुतराः क्लेशा अस्य, सोऽयं प्रकृतिस्थः, उत्कटेऽपि वस्तुनि पूर्वप्रतिपक्षाभ्यासवशेन प्रकृत्या मृदुक्लेशसमुदाचारादिति // 5143. श्रावकयानिको गोत्रेन्द्रियप्रणिधानाशयालंबनप्रतिपत्तिफलप्रभेदैनिदिष्टो वेदितव्यः। प्रकृत्या मृद्विन्द्रियत्वं पुनरस्य प्रत्येकबुद्धबोधिसत्त्वेन्द्रियापेक्षया, [Ch. 753C] इतरथा हि धर्मानुसार्यादयस्तीक्ष्णेन्द्रिया इत्येतद्विरुध्येत / 1. Ch. विनिश्चये प्राप्तिपरिछेदे तृतीये प्रथमो भागः. 2. T. omits "हि याहि". 3. Ms. संव्यवहाराणात्. 4. T. & Ch. lack afa.