________________ 104 अभिधर्मसमुच्चयभाष्यम् आरब्धवीर्यः [Ms. 95 B] प्रयोगनिष्ठाफलाधिगमाध्यानं संपादयति / संपन्नध्यानश्च समाहितचित्तो यथाभूतज्ञानाल्लोकोत्तरां प्रज्ञा प्रतिलभत इति // पुनरुत्तरोत्तराधारतः, शीलं दानस्याधार एवं यावत्प्रज्ञा ध्यानस्य / तथाहि. शीलवतो दानं विशुद्धं भवति, दानेनानुगहीतस्य शीलेन पघाताकरणतः / एवमस्य प्रतिग्राहकस्य बोधिसत्त्वेन विहेठाविरहितोपकरणसुखोपसंहाराच्छीलबलेन दानपारमिता विशुद्धिर्वेदितव्या। एवं क्षमिण : शीलविशुद्धिः, परापकारैः शिक्षापदाखण्डनात् / आरब्धवीर्यस्य क्षान्तिविशुद्धिः, उत्साहबलेनोत्पत्य संसारमभ्युपगतवतोऽकृच्छण सत्त्वविप्रतिपत्ति दुःखस[ह] नात् / ध्यायिनो वीर्यविशुद्धिः, सह सुखेन सौमनस्येन सर्वकुशलधर्मप्रयोगात् / प्रज्ञावतो ध्यानविशुद्धिः, बहुप्रकारान्धर्मान्विपश्यत्यध्यात्म शमथतः समाध्यभिवृद्धेः, नास्ति ध्यानमप्रज्ञस्येति गाथायां [Ms. 96 A] वचनादिति // . [T. 93 A] यथौदारिकश्चापरोऽनुक्रमो वेदितव्यः। सौदारिकं हि दानमतः प्रथमतो व्यवस्थाप्यते / तदनन्तरं क्षान्त्यादिभ्यः शीलमौदारिकमेवं यावत्प्रज्ञाया ध्यानमौदारिकम्। सर्वसूक्ष्मा तु प्रज्ञा, अतः सर्वपश्चाद्व्यवस्थाप्यत इति // ___8131 D. निर्वचनम् / केन कारणेन दानं दानपारमितेत्युच्यते / महद्दानं निर्दोषं निर्मलं दानपारमितेत्युच्यते / तत्र महद्दानं सर्वप्रकाराध्यात्मिकबाह्यवस्तु. दानतो दीर्घकालदानतश्च / निर्दोषं विषमपर्येष्टयादिविवजितत्वात् -निमलं मात्सर्यविपक्षप्रहाणात् / यथोक्त दानपारमितामारभ्याक्षियमतिनिर्देशसूत्रे[T. 93 B. 1.8] 4 निर्मलं सवासनविपक्षप्रहाणात् / तदनया त्रिविधया परमतय। दानपारमि[T.94 A]तेत्यभिद्योतितं भवति / त्रिविधा परमता-स्वभावपरमता सहपरिचयेन, उपायपरमता, फलपरमता च। परिचयः पुनर्दीर्घकालदानतो वेदितव्यः / एवं याव[Ch. 748 AJत्प्रज्ञापारमिता वेदितव्या // शीलादीनां पुनर्निर्दोषत्वमा[Ms. 96 B]त्मसमारोपवजितत्वादिभिर्यथायोगम्, तदक्षयमतिसूत्रेषु द्रष्टव्यम् / / पुनदिशविधेन परमत्वेन योगात्पारमितेत्युच्यते। द्वादशविधं पुनः परमत्वम् - (i) औदार्यपरमत्वं सर्वलोकसम्पत्त्यनथित्वादुत्कृष्ट]त्वाच्च / (ii) आयतत्वपरमत्वं विकल्पासंख्येयपरिभावनात। (iii) अधिकारपरमत्वं सर्वसत्त्वार्थक्रियाधिकारप्रवृत्तत्वात् / (iv) अक्षयत्वपरमत्वं महाबोधिपरिणामनयाsत्यन्तमपर्यादानात् / (v) नैरन्तर्यपरमत्वमात्मपरसमताधिमोक्षात्सर्वसत्त्वदानादिभिः 1. T. & Ch. lack पारमिता. 2. Ms. त्ति:. 3_3. “निर्मलं-प्रहाणात् / " is in the bottom margin. T. lacks this portion. 4. T. quotes the long portion from the Sutra.