________________ 102 अभिधर्मसमुच्चयभाष्यम् [T. 90 B] प्रयोगः पुनर्द्विविधः संदर्शितः (i) सातत्यसत्कृत्यप्रयोगसंगृहीतश्च न रिञ्चति योगमित्यनेन, (ii) अविपरीत[प्र] योगसंगृहीतश्च न रिञ्चति मनस्कारमित्यनेन / असंतुष्टिर्न रिञ्चत्यध्यात्मचेतः शमथमित्यनेन संदर्शिता, तदनास्वादनादुत्तरशमथप्रयोगाच्चास्यारिञ्चनं वेदितव्यम् / / $ 131. केन कारणेन वैपुल्यं सूत्रान्तरे बोधिसत्त्वपारमितापिटकमित्युच्यते। तत्र पारमितानां संख्यानिर्देशाद्यावदन्योन्यविनिश्चयनाच्च / / 6 131A. तत्र संख्या द्विविधा, गणनासंख्या तन्मात्रसंख्या च। (i) षट् पारमिता' इति गणनासंख्या। (ii) सर्वाकारयोर्बोधिसत्त्वाभ्युदय[Ms. 93 B]निःश्रेयसमार्गयोस्तिसृभिस्तिसृभिश्च संग्रहात् षडेव पारमिता न भूयस्यो नाल्पीयस्य इतीयं तन्मात्रसंख्या / त्रिविधोऽभ्युदयो महाभोगता महात्मता महापक्षता च / तत्र (i) दानपारमिताया महाभोगता फलम् / (ii) शीलपारमिताया महात्मता फलम्, शीलेन सुगतात्मभावसंपत्तिप्रतिलम्भात् / [Ch. 747A] (iii) क्षान्तिपारमिताया महापक्षता फलम्, क्षान्त्या सर्वजनाभिगमनीयताप्रति लम्भादिति / / त्रिविधो निःश्रेयसमार्गः-क्लेशमभिभूय कुशलपक्षप्रयोगोपायः, [T.91A] सत्त्वपरिपाचनोपायः, बुद्धधर्मसमुदानयनोपायश्च, एषामन्यतरेणापि विना बोधिसत्त्वस्य निःश्रेयसानुपपत्तेः / तत्र सत्त्वपरिपाचनोपायो ध्यानपारमिता, तत्सं. निश्रयेणाभिज्ञाभिः सत्त्वपरिपाचनात् / / पुनरप्रतिष्ठितनिर्वाणोपायत: षडेव पारमिताः। बोधिसत्त्वेन हि निर्वाणप्रतिष्ठाविपर्ययेण संसारेऽभ्युदयः परिग्रहीतव्यः। संसारप्रतिष्ठाविपर्ययेण तस्मिन्नसंक्लेष्टव्यम् / अतस्तिस्रोऽभ्युदयलाभोपायास्तिस्रस्तदसंक्लेशोपा[Ms. 94 A]या यथायोगं पूर्वानुसारेणैव वेदितव्याः / असंक्लेशीपाये तु वीर्येण प्रतिपक्षभावना, ध्यानेन क्लेशविष्कम्भणम्, प्रज्ञया क्लेशानुशयसमुद्घात इति / / ____ सर्वानुग्रहतां क्लेशप्रतिपक्षतां चोपा[दा] येत्यपर: पर्यायः। तत्र दानेन बोधिसत्त्वः सत्त्वानुपकरणोपसंहारानुग्रहेणानुगृह्णाति / शीलेन विघातोत्पीडाविहेठाऽकरणेनानुगृह्णाति, यथाक्रम' भोगकायचित्तोपघातानुपसंहारात् / क्षान्त्या विघातोत्पीडाविहेठामर्षणेनानुगृह्णाति, परेभ्य [T. 91B] आत्मनो भोगाद्युपघातसहनात् / आभिस्तिसृभिरनुगृह्णाति / / वीर्येणाविष्कम्भितक्लेशोऽपि कुशलपक्षे 1. Ms. here repeats षटपारमिता:. 2. T. adds दानेन महाभोगप्रतिलम्भात्. 3. T. lacks क्लेश, 4. Ms. ना. 5. Ms म. 6. T. सत्त्व.