________________ // श्री महावीरजिनेन्द्राय नमः छन्दोऽमृतरसः शिवशर्मप्रदातारं चरमतीर्थनायकम् / भक्तिभावेन वन्देऽहं गणेशगौतमन्तथा // 1 // स्मृत्वा कपूरसूरीशं तपोधर्मप्रभावकम् / .... छन्दोऽमृतरसं वक्ष्ये नत्वाऽमृतगुरु स्वकम् / / 2 // ग्रन्थोऽयं सुखबोधाय, संक्षेपेण विरच्यते / लक्षणं छन्दसां यत्र, श्रुतमात्रेण ज्ञायते // 3 // सानुस्वारविसर्ग हि, संयुक्ताद्यं तथा गुरु / विज्ञेयमक्षरं दीर्घ पादान्तस्थं विकल्पतः / / 4 / / आदिमध्यावसानेषु, यरता यान्ति लाघवम् / / भजसा गौरवं यान्ति, मनौ तु गुरुलाघवम् // 5 // यस्याः पादे प्रथमे, द्वादश मात्रास्तथा तृतीयेऽपि / अष्टादश द्वितीये, चतुर्थक पञ्चदेश साऽऽर्या // 6 // आर्यापूवार्धसमं, पराईमपि यच्छन्दसि मुने ! भवति / छन्दोविदस्तदानी-मा-गीति तां मुदा कथयन्ति // 7 // आर्योत्तरार्धतुल्यं, पूर्वार्धं यच्छन्दसि स्यात् / तच्छन्दो भाषन्ते, ह्यार्यामुपगीति सुकवयः // 8 // आद्यचतुर्थ, पश्चमकं चेत् / . यत्र गुरु स्याद् भगौगिति पङ्क्तिः // 6 // अगुरुचतुष्कं भवति गुरु द्वौ / विनतमुनेऽसो, शशिवदना न्यौ // 10 // तुर्य पश्चमकं चेद्यत्र स्याल्लघु साधो।।। विद्वद्भिः कथिता सा म्सौ गः स्यान्मदलेखा // 11 // ज्ञेयं षष्ठं गुरु श्लोके, लघु सर्वत्र पश्चमम् / द्विचतुष्पादयोह स्वं, दीर्घ सप्तममन्ययोः // 12 // ज्ञेयं षष्ठं गुरु श्लोके, लघु सर्वत्र पञ्चमम् / द्विचतुष्पाद यों सप्तमं इस्वं पद्य-लक्षणम् / / 13 / /