________________ लेशप्रवृत्तिविलोकनेन तस्य जीवस्य सम्पन्ना भगवदलोकनेति निर्णीयते, तस्मादिहापि निश्चयकरणे तदस्त्येव हेतुद्वयं, यदुत-सञ्जातकर्मविवरता भगवच्छासनपक्षपातश्चेति / ___ यथा च 'तेन महानसनियुक्तकेन द्रमकगोचरमेतच्चिन्तितं यदुत यद्यपीदानीमेष रोराकारमाविभत्ति तथाऽपि महानरेन्द्रावलोकनादेवोत्तरोत्तरक्रमेण संभवत्कल्याणपरम्परः कालान्तरेण वस्तुतत्त्वं प्रतिपत्स्यते खल्वेष, नास्त्यत्र सन्देह इति' तथा सद्धर्मगुरवोऽपि परमात्मावलोकना जीवे विनिश्चित्य तस्य भविष्यद्भद्रतां विगतसन्देहाः स्वहृदये स्थापयन्त्येव / यथा च 'असौ महानसनियुक्तकस्तद्रुमके महानरेन्द्रावलोकनां निर्णीय तदनुवृत्तिवशेन करुणाप्रवणः सम्पन्नः' तथा जीवेऽपि परमात्मावलोकनामाकलय्य सद्धर्मगुरवस्तदाराधनपरायणतयैव करुणाप्रवणमानसाः सञ्जायन्ते, तदनुकम्पया तदपि भगवानाराधितो भवतीत्यर्थः / / यत् पुनरभ्यधायि, यथा--'असौ रसवतीपतिः शीघ्रं तत्समीपमादरवशेनाऽऽगच्छत् , गत्वा चैह्येहि भद्र ! दीयते तुभ्यं भिक्षेत्येवं रोरमाकारितवानिति' तदेवमिह योजनीयं---यदाऽस्य जीवस्य पूर्वोक्तन्यायेनानादौ संसारे पर्यटतः परिपक्का भव्यता, क्षीणप्रायं क्लिष्टकर्म स्तोकमास्ते तच्छेषं तेनापि दत्तं रन्ध्र, प्राप्ता मनुजभवादिसामग्री, दृष्टं सर्वज्ञशासनं, संजाता तत्र सुन्दरबुद्धिः, प्रवृत्ता मनाक् पदार्थजिज्ञासा, समुत्पन्ना कुशलकर्मलेशबुद्धिः अथ चानुवर्तन्तेऽद्यापि पापकलाः, तदेवंविधे भद्रकभावे वर्तमानस्य सञ्जातायां भगवदवलोकनायां सद्धर्माचार्याः प्रादुर्भूततीव्रकरुणापरिणामाः सन्मार्गावतारणार्थ योग्यतां निश्चित्य भावतोऽभिमुखीभवन्ति, तदेतत्तेषां तत्समीपगमनमभिधीयते, सञ्जातप्रसादाश्च कथयन्ति ते तस्मै६२ यथा-"भद्र ! अकृत्रिमोऽयं लोकः, अनादिनिधनः कालः, शाश्वतरूपोऽयमात्मा, कर्मजनितोऽस्य भवप्रपश्चः; तच्चानादिसम्बद्धं प्रवाहेण मिथ्यात्वादयस्तस्य हेतवः, तत् पुनर्द्विविधं कर्म-कुशलरूपमकुशलरूपं च, यत्तत्र कुशलरूपं तत् पुण्यं धर्मश्चोच्यते, यत् पुनरकुशलरूपं तत्पापमधर्मश्चाभिधीयते, पुण्योदयजनितः सुखानुभवः, पापोदयसंपाद्यो दुःखानुभवः, तयोरेव पुण्यपापयोरनन्तभेदभिन्नेन तारतम्येन संपद्यते खल्वेषोऽधममध्यमोत्तमाद्यनन्तभेदवर्तितया विचित्ररूपः संसारविस्तार इति / ततश्चैवंविधं सद्धर्माचार्यवचनमाकर्णयतोऽस्य जीवस्य ते पूर्वमनादिकुवासनाजनिताः कुविकल्पाः प्रवत्तन्ते स्म, यदुत--"अण्डसमुद्भूतमेतत्रिभुवनं यदि वेश्वरनिर्मितं ब्रह्मादिकृतं वा प्रकृतिविकारात्मकं वा यदि वा प्रतिक्षणविनश्वरं वा पञ्चस्कन्धात्मकोऽयं जीवः पञ्चभूतात्मको वा विज्ञानमात्रं चेदं सर्व शून्यरूपं वा, न विद्यते वा कर्म, महेश्वरवशादिदं सर्व नानारूपं वर्तत इत्यादयः", ते सर्वेऽपि भीममहायोधदर्शनात्संग्रामशिरसि प्रत्यनीककातरनरा इव निवर्तन्ते / ... ततश्चायं तदा जीवो मन्यते--यदेते महात्मानो मह्यं कथयन्ति तत्सर्वमुपपद्यते, मत्तोऽधिकतर परीक्षितुं वस्तुतत्त्वमेत एव जानन्ति ततश्च यदुक्तं कथानकं कथयता यदुत 'कदर्थनार्थमायाताः, पश्चाल्लग्नाः सुदारुणाः। दुर्दान्तडिम्भा ये तस्य, दृष्ट्वा तं ते पलायिताः // 185 // 62 ततोऽसौ प्र.. .