________________ तदिदं भो महाराज ! तदानीं नरवाहन ! / विचक्षणेन निःशेष, साक्षादेवावलोकितम् // 362 // षभिः कुलकम् विचक्षण __ ततश्च भो भो महानरेन्द्र नरवाहन ! स विचक्षणः सहैव तेन शुभोदयेन पित्रा युक्त प्रव्रज्या एव तया निजचारुतया मात्रा आलिङ्गित एव तया प्रियभार्यया बुध्या सहित एव तेन श्वशुर्येण विमर्शेन अन्वित एव वक्षःस्थलशायिना तेन प्रकर्षेण प्रियतमतनयेन समुपेत एव वदनकोटरवने वर्तमानया रसनाभार्यया सर्वथा सकुटुम्बक एव केवलं तामेकां लोलतां दासचेटी परित्यज्य निराकृत्य च परुषक्रियया संप्राप्य गुणधरनामानमाचार्य प्रबजितः / तेन स्थितस्तेषां जैनपुरनिवासिनां भगवतां साधूनां मध्ये किलाहं प्रव्रजित इति मन्यमानः, ततः शिक्षितः समस्तोऽपि तेन तेषामाचारो, निषेवितः परमभक्त्या, विसर्जिता सा रसना सर्वथा विहिताऽत्यर्थमकिश्चित्करी / ततः स्थापितस्तेन गुरुणा निजपदे, स चान्यत्रापि दृश्यमानः परमार्थतस्तत्रैव विवेकगिरि शिखरवासिनि जैनपुरे द्रष्टव्यः / आचार्य- ___यतो भो महाराज नरवाहन ! स विचक्षणोऽहमेव विज्ञेयः, एते च ते महात्मानः नृपजल्पः साधवो मन्तव्याः, ततो महाराज ! यद्भवद्भिरभ्यधायि यदुत किं ते वैराग्यकारणमिति, तदिदं मम वैराग्यकारणं, इयं चेदृशी मदीया प्रव्रज्येति एवं च व्यवस्थिते भार्यादोषेण यो नाथ, प्रवज्यां समुपागतः। न च साऽपि परित्यक्ता, सर्वथा येन पापिनी // 363 // यश्च पालयेदऽद्यापि, कुटुम्बं तदवस्थितम् / तस्य मे कीदृशी नाम, प्रव्रज्या भूप ! कथ्यताम् ! // 364 // तथापि ते महाराज ! यन्ममोपरि गौरवम् / तर्कयनापि तत्राहं न जाने बत कारणम् // 365 // यतः-सदोषेऽपि गुणारोपी, जगदालादकारकः / किमेषोऽचिन्त्यसौन्दर्यः, सज्जनप्रकृतेर्गुणः // 366 // तथाहि-नूनमेषा सतां दृष्टिश्चापयष्टिरपूर्विका / अकारणेऽपि या नित्यं, गुणारोपपरायणा // 367 // किंवा भुवनवन्धस्य, गुणोऽयं हतविद्विषः / अस्यैव जैनलिङ्गस्य, यत्रैते संस्थिता वयम् // 368 // तथाहि-सुरेन्द्रा अपि वन्दन्ते, तं भक्तिभरपूरिताः। करस्थं यस्य पश्यन्ति, जैनेन्द्र लिङ्गमञ्जसा // 369 // किं चान्यत्कारणं किञ्चिद्गृहस्थाचारधारकः / येनेदृशोऽपि ते राजन्नहं दुष्करकारकः // 370 // एवं च वदति भगवति विगलितमदचेतसि विचक्षणसूरौ नरवाहनराजेन चिन्तितं-अहो निजचरितकथनेन भगवता जनितो मोहविलयः, अहो भगवतां वचनविन्यासः, अहो विवेकित्वं अहो मय्यनुग्रहपरता, अहो दृष्टपरमार्थतेति / विज्ञातश्च मया सर्वस्यास्य भगवद्भाषितस्य गर्भार्थः / ततोऽभिहितमनेन-भदन्त ! यादृशं लोके, संपनं ते कुटुम्बकम् अधन्यास्तादृशं नूनं, प्राप्नुवन्ति न मादृशाः॥३७१॥ इदं च पोषयन्नत्र, जैनलिङ्गे च संस्थितः। भदन्त ! भगवानेव, गृहस्थो भवतीदृशः // 372 // अन्यच्च-कृताऽकिञ्चित्करी येन, रसनाऽपि महात्मना / अत्यन्तादुर्जया लोके, लोलता च निराकृता // 373 // महामोहादिवर्ग च, जित्वा यो जैनसत्पुरे / स्थितोऽसि साधुमध्यस्थः, कुटुम्बसहितो मुने ! // 374 // स चेत्त्वं न भवस्यत्र, हन्त दुष्करकारकः / कीदृशास्ते भवन्त्यन्ये, ब्रूहि दुष्करकारकाः ? // 375 // यश्चायं तव संपन्नो, वृत्तान्तो जगदद्भुतः। एतद्वत्तान्तयुक्ता ये, ते वन्द्याः प्रतिभान्ति मे // 376 // तद्भदन्त ! किमेतेषां, साधूनामयमीदृशः / संपन्न एव वृत्तान्तः, किंवा नेति निवेद्यताम् // 377 // ततो विचक्षणेनोक्तं, सर्वेषामयमीदृशः / साधूनां भूप ! संपन्नो, वृत्तान्तो नास्ति संशयः // 378 // अन्यच्च-संपद्यते तवापीह, वृत्तान्तोऽयं नरेश्वर ! / यदि त्वं कुरुषे सद्यो, यादृशं मादृशै कृतम् // 379 // दर्शयामि क्षणेनैव, तं विवेकमहागिरिम् / ततस्तज्जायते तेऽत्र, स्वयमेव कुटुम्बकम् // 380 //