________________ 260 मोहाद्या बान्धवाः दर्शनेषु, हृष्यन्ति सदर्थोपलम्भेषु, द्विषन्ति व्रतातिचारकरणेषु, क्रुध्यन्ति सामाचारीविलोपेषु, रुष्यन्ति प्रवचनप्रत्त्यनीकेषु, माद्यन्ति कर्मनिर्जरणेषु, अहङ्कुर्वन्ति प्रतिज्ञातनिर्वाहणेषु, अवष्टनन्ति परीषहेषु, स्मयन्ते दिव्याद्युपसर्गेषु, गृहयंति प्रवचनमालिन्यं, वश्चयन्तीन्द्रियधूर्तगणं, लुभ्यन्ति तपश्चरणेषु, गृध्यन्ति वैयावृत्त्याचरणेषु, अभ्युपपद्यन्ते सद्ध्यानयोगेषु, तृष्यन्ति परोपकारकरणेषु, निम्नन्ति प्रमादचौरवृन्द, बिभ्यति भवचक्रभ्रमणात् ,जुगुप्सन्ते विमार्गचारितां रमन्ते निवृतिनगरीगमनमार्गे, उपहसन्ति विषयसुखशीलतां, उद्विजन्ते शैथिल्याचरणात्, शोचन्ति चिरन्तनदुश्चरितानि, गर्हन्ते निजशीलस्खलितानि निन्दन्ति भवचक्रनिवासं, आराधयन्ति जिनाज्ञायुवति, प्रतिसेवन्ते द्विविधशिक्षाललनाम् / तदेवं सर्वकार्याणि, महामोहादिभूभुजाम् / एतेषु माम ! दृश्यन्ते, जैनेषु सुपरिस्फुटम् // 69 // तत्कथं भवता प्रोक्तमेवं सति ममाग्रतः / यथैते दूरतस्त्यक्ता, महामोहादिशत्रुभिः // 70 // विमर्शनोदितं वत्स !, य एते भवतोदिताः / महामोहादयस्तेऽन्ये, वत्सला जैनबान्धवाः // 71 // एते हि द्विविधा वत्स ! महामोहादयो मताः / एकेऽरयोऽत्र जन्तूनामपरेऽतुलबान्धवाः // 72 // यतः-प्रथमा भवचक्रेऽत्र, पातयन्ति सदा जनम् / अप्रशस्ततया तेषां, प्रकृतिः खलु तादृशी // 73 // इतरे निर्वृतिं लोकं, नयन्ति निकटे स्थिताः / प्रशस्तास्ते यतस्तेषां, प्रकृतिः साऽपि तादृशी // 7 // तदेते शत्रुभिस्त्यक्ता, बन्धुभिः परिवेष्टिताः। महामोहादिभिर्वत्स ! मोदन्ते जैनसज्जनाः // 75 // एवं च-अमी सकलकल्याणभाजिनो जैनसज्जनाः। निवेदिता मया तुभ्यमधुना शृणु मण्डपम् / / 76 // अयं चित्तसमाधानो, मण्डपः सर्वदेहिनाम् / संप्राप्तः कुरुते सौख्यमतुलं निजवीर्यतः // 77 // अस्यैव भूपतेनूनमास्थानार्थ विनिर्मितः / वेधसा त्रिजगद्वन्धोरादरादेष मण्डपः // 78 // नास्त्येव भवचक्रेऽत्र, सुखगन्धोऽपि सुन्दर ! / यावञ्चित्तसमाधानो, नैष संप्राप्यते जनैः // 79 // तदेष लेशतो वत्स ! वर्णितो वरमण्डपः / एषा निःस्पृहता नाम, वेदिका ते निवेद्यते // 80 // ये लोका वेदिकां वत्स ! स्मरन्त्येनां पुनः पुनः / तेषां शब्दादयो भोगाः, प्रतिभान्ति विषोपमाः // 81 // न तेषु वर्तते चित्तं, क्षीयते कर्मसञ्चयः / जायन्ते निर्मलत्वेन, भवचक्रपराङ्मुखाः // 82 // येषामेषा स्थिता चित्ते, धन्यानां वत्स ! वेदिका / नेन्द्रैन देवों भूपैर्नान्यस्तेषां प्रयोजनम् // 83 // एषाऽपि नूनमस्यैव, निविष्टा वरभूपतेः / आस्थानार्थ विधात्रेति, वत्स ! सुन्दरवेदिका // 84 // इयं निःस्पृहता तात ! वर्णिता ते सुवेदिका / जीववीर्यमिदं नाम, साम्प्रतं शृणु विष्टरम् // 85 // जीववीर्यमिदं येषां, परिस्फुरति मानसे / सुखमेव परं तेषां, दुःखानामुद्भवः कुतः ? // 86 // अयं हि राजा दीप्ताङ्गो, दृश्यते यश्चतुर्मुखः। निविष्टोऽत्र जगद्वन्धुर्दत्तास्थानो मनोरमः // 87 // यः शुभ्रः परिवारोऽस्य, यद्राज्यं या विभूतयः / यच्चातुलं महत्तेजो, विष्टरं तत्र कारणम् // 88 // किं चात्र बहुनोक्तेन ? पुरं लोका महागिरिः / शिखरं सत्पुरं लोका मण्डपो वरवेदिका // 89 // राजाऽयं सह सैन्येन, राज्यं भुवनसुन्दरम् / जगच्छिष्टमिदं सर्व, माहात्म्येनास्य नन्दति // 9 // तथाहि-यद्येतन भवत्यत्र, जीववीर्य वरासनम् / महामोहादिभिः सर्व, तदिदं परिभूयते // 91 // विद्यमाने पुनर्वत्स ! जीववीर्यवरासने / महामोहादयो नैव, प्रविशन्त्यत्र मण्डपे // 92 // अन्यच्च-कचित्तिरस्कृतं तात ! महामोहादिभिर्बलम् / इदमाविर्भवत्येव जीववीर्यप्रभावतः // 93 // इदं सिंहासनं वत्स ! यावदत्र प्रकाशते / तावद्धि सर्वतोभद्रं, राजा सैन्यं गिरिः पुरम् // 94 // तदिदं वर्णितं वत्स ! जीववीर्यवरासनम् / परिवारयुतो राजा, साम्प्रतं ते निवेद्यते // 15 // जीववीर्य विष्टर