________________ 255 तत्र पृथिव्यापस्तेजो वायुराकाशं कालो दिगात्मा मन इति नव द्रव्याणि / रूपरसगन्धस्पर्शसंख्यापरिमाणपृथकत्वसंयोगविभागपरत्वापरत्वबुद्धिमुखदुःखेच्छाद्वेषप्रयत्नधर्माधर्मसंस्कारगुरुत्वद्रवत्वस्नेहवेगशब्दाः पञ्चविंशतिर्गुणाः। उत्क्षेपणमवक्षेपणमाकुश्चनं प्रसारणं गमनमिति पश्च कर्माणि / सामान्यं द्विविध-परमपरं च, तत्र परं सत्तालक्षणं, अपरं द्रव्यत्वादीति / नित्यद्रव्यवृत्तयोऽन्त्या विशेषाः / अयुतसिद्धानामाधाराधेयभूतानां यः सम्बन्ध इहप्रत्यायहेतुः स समवायः / लैङ्गिकप्रत्यक्षे द्वे एव प्रमाणे / इति वैशेषिकदर्शनसमासार्थः। सांख्यैस्तु वत्स ! निजबुद्धया परिकल्पितोऽयं निवृतिनगर्याः पन्थाः, यदुत-पञ्चविंशतितत्त्वपरिज्ञानाभिःश्रेयसाधिगमः / . तत्र त्रयो गुणाः-सत्त्वं रजस्तमश्च / तत्र प्रसादलाघवप्रणयानभिष्वङ्गाद्वेषप्रतीतयः कार्य सत्त्वस्य, शोकतापभेदस्तम्भोद्वेगापद्वेषाः कार्य रजसः, मरणसादनबीभत्सदैन्यगौरवाणि तमसः कार्यम् / ततः सत्त्वरजस्तमसा साम्यावस्था प्रकृतिः, सैव प्रधानमित्युच्यते / प्रकृतेश्च महानाविभवति, बुद्धिरित्यर्थः / बुद्धश्चाहङ्कारः। ततोऽहङ्कारादेकादशेन्द्रियाणि, तद्यथा-पश्च बुद्धीन्द्रियाणि स्पर्शनरसनघ्राणचक्षुःश्रोत्ररूपाणि, पश्च कर्मेन्द्रियाणि वाक्पाणिपादपायूपस्थलक्षणानि मनश्चाविर्भवति / ...तथा तत एवाहङ्कारात्तमोबहुलात्पश्च तन्मात्राणि स्पर्शरसरूपगन्धशब्दलक्षणान्याविर्भवन्ति / तेभ्यश्च पृथिव्यादीनि पश्च महाभूतानि / तदेषा चतुर्विंशतितत्त्वात्मिका प्रकृतिः / तथा परः पुरुषश्चैतन्यस्वरूपः, स चानेको जन्ममरणकरणानां नियमदर्शनाद्धर्मादिषु प्रवृत्तिनानात्वाच्च / प्रकृतिपुरुषयोश्चोपभोगार्थः संयोगः पङ्ग्वन्धयोरिव, उपभोगश्च शब्दाधुपलम्भो गुणपुरुषान्तरोपभोगश्च / प्रत्यक्षानुमानागमाः प्रमाणानि / इति सांख्यदर्शनसंक्षेपार्थः॥ बौदैः पुनर्भद्र ! परिकल्पितेयं निर्वृतिनगरीवर्तनी, यदुत-द्वादशायतनानि, तद्यथा-पञ्चेन्द्रियाणि पश्च शब्दादयो, मनो, धर्मायतनं च, धर्मास्तु सुखादयो विज्ञेयाः / प्रत्यक्षानुमाने द्वे एव प्रमाणे। इति बौद्धदर्शनसमासाथः // अथवा वैभाषिकसौत्रान्तिकयोगाचारमाध्यमिक भेदाच्चतुविधा बौद्धा भवन्ति / तत्र वैभाषिकमतमिदं, यदुत--क्षणिकं वस्तु, तद्यथा-जातिर्जनयति स्थितिः स्थापयति जरा जर्जरयति विनाशो नाशयति / तथाऽऽत्माऽपि तथाविध एव पुद्गलश्वासावभिधीयते // सौत्रान्तिकमतं पुनरिद-रूपवेदनाविज्ञानसंज्ञासंस्काराः सर्वशरीरिणामेते पञ्च स्कन्धा विद्यन्ते, न पुनरात्मा / त एव हि परलोकगामिनः / तथा क्षणिकाः सर्वे संस्काराः स्वलक्षणं परमार्थतः / अन्यापोहः शब्दार्थः / सन्तानोच्छेदो मोक्ष इति / __ योगाचारमतं त्विदं-विज्ञानमात्रमिदं भुवनं न विद्यते बाह्याथः / वासनापरिपाकतो नीलपीतादिप्रतिभासाः / आलयविज्ञानं सर्ववासनाधारभूतम् / आलयविज्ञानविशुद्धिरेव चापवर्ग इति // ____ माध्यमिकदर्शने तु-सर्वशून्यमिदं, स्वमोपमः प्रमाणप्रमेयप्रविभागः / 'मुक्तिस्तु शून्यतादृष्टिस्तदर्य शेषभावना' इति बौद्धविशेषाणां मतसंक्षेपार्थः //